________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
130
गणितसारसाहः.
अत्रोद्देशकः । .. कस्य हि समचतुरश्रक्षेत्रस्य फलं चतुःषष्टिः । फलमायतस्य सूक्ष्मं पृष्टिः के वात्र कोटिभुजे ॥ १४७ ।।
इष्टद्विसमचतुर क्षेत्रस्य सूक्ष्मफलसङ्ख्यां ज्ञात्वा, इष्टसङ्ख्यां गुणकं परिकल्प्य, इष्टसङ्ख्याङ्कबीजाभ्यां जन्यायतचतुर क्षेत्रं परिकल्प्य, तदिष्टद्विसमचतुरश्रक्षेत्रफलवादिष्टद्विसभचतुरश्रानयनसूत्रम्
तदनगुणितेष्टकृतिर्जन्यधनोना भुजाहृता मुरवं कोठिः । द्विगुणा समुरवा भूदौलम्वः कर्णौ भुजे तदिष्टहृताः ॥ १४८ ॥
अत्रोद्देशकः।। सूक्ष्मधनं सप्तेष्टं त्रिकं हि बीजे द्विके त्रिके दृष्टे । द्विसमचतुरश्रबाहू मुखभूम्यवलम्बकान् ब्रूहि ॥ १४९ ॥ इष्टसूक्ष्मगणितफलवत्रिसमचतुरश्रक्षेत्रानयनसूत्रम्इष्टघन भक्तधनकृतिरिष्टयुतार्ध भुजा द्विगुणितेष्टम । विभुजं मुरवमिष्टाप्तं गणितं यवलम्बकं त्रिसमजन्ये ॥ १५ ॥
अत्रोद्देशकः । कस्यापि क्षेत्रस्य त्रिसमचतुर्बाहुकस्य सूक्ष्मधनम् । षण्णवतिरिष्टमष्टौ भूबाहुमुरवावलम्बकानि वद ॥ ११ ॥
सूक्ष्मफलसङ्ख्यां ज्ञात्वा चतुर्भिरिष्टच्छेदैश्च विषमचतुरश्रक्षेत्रस्य मुरवभूमुजाप्रमाणसङ्ख्यानयनसूत्रम्----
धनकृतिरिष्टच्छेदैश्चतुभिराप्तैव लब्धानाम् । युतिदलचतुष्टयं तैरूना विषमाख्यचतुर श्रभुजसङ्ख्या ॥ १५२ ॥
अत्रोद्देशकः। नवतिर्हि सूक्ष्मगणितं छेदः पञ्चैव नवगुणः । दशधृतिविंशतिषतिहतः क्रमाद्विषमचतुरश्रे॥ . मुरवभूमिभुनासया विगणय्य ममाशु सङ्कथय ॥ १५३॥
For Private and Personal Use Only