________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
104
गणितसारसङ्ग्रहः पुनरपि इष्टाद्युत्तरपदवर्गसङ्कलितानयनसूत्रम्--- द्विगुणैकोनपदोत्तरकृतिहतिरेकोनपदहताङ्गहता । व्येकपदादिचयाहतिमुखकृतियुक्ता पदाहता सारम् ॥ २९९ ॥
__ अत्रोद्देशकः । त्रीण्यादिः पञ्च चयो गच्छ: पञ्चास्य कथय कृतिचितिकाम् । पश्चादिस्त्रीणि चयो गच्छ: सप्तास्य का च कृतिचितिका ॥३०० ॥ घनसङ्कलितानयनसूत्रम् ---- गच्छार्धवर्गराशी रूपाधिकगच्छवर्गसङ्गणितः । घनसङ्कलितं प्रोक्तं गणितेऽस्मिन् गणिततत्त्वज्ञैः ॥ ३० १ ॥
अत्रोद्देशकः। षण्णामष्टानामपि सप्तानां पञ्चविंशतीनां च ।
षट्पञ्चाशन्मिश्रितशतद्वयस्यापि कथय घनपिण्डम् ।। ३०२ ।। इष्टाद्युत्तरगच्छधनसङ्कलितानयनसूत्रम् ---- चित्यादिहतिर्मुरवचयशेषना प्रचयनिघ्नचितिवर्गे । आदौ प्रचयादूने वियुता युक्ताधिके तु घनचितिका ॥ ३०३ ।।
अत्रोद्देशकः । आदिस्त्रयश्चयो द्वौ गच्छः पञ्चास्य घनचितिका ।
पञ्चादिस्सप्तचयो गच्छप्पट का भवेच्च घनचितिका ॥ ३०४ ।। सङ्कलितसङ्कलितानयनसूत्रम्द्विगुणैकोनपदोत्तरकृतिहतिरङ्गाहृता चयार्धयुता । आदिचयाहतियुक्ता व्येक पदघ्नादिगुणितेन ॥ सैकप्रभवेन युता पददलगुणितैव चितिचितिका ।। ३०५: ।।
For Private and Personal Use Only