________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
89
मिश्रकव्यवहारः अज्ञातवर्णहेन : पञ्च विमिश्रक्षयं च सैकदश । अज्ञातवर्णसङ्खयां ब्रूहि सरवे गणिततच्वज्ञ ॥ १७८ ।। चतुर्दशैव वर्णानि सप्त स्वर्णानि तत्क्षये'। चतुरवणे दशोत्पन्नमज्ञातक्षयकं वद ॥ १७९ ।। अज्ञातवानयनसूत्रम्वस्वर्णवर्णविनिहतयोग स्वर्णेक्यगुणितदृढवर्णात् । त्यक्त्वाज्ञातस्वर्णक्षयदृढवर्णान्तराहृतं कनकम् ।। १८० ॥
अत्रोद्देशकः। द्वित्रिचतुःक्षयमानास्त्रिस्त्रिः कनकास्त्रयोदशक्षयिकः।
वर्णयुतिर्दश जाता बाहि सरवे कनकपरिमाणम् ।। १८१ ।। सुग्मवर्णमिश्रसुवर्णानयनसूत्रम्
ज्येष्ठाल्पक्षयशोधित पक्वविशेषाप्तरूपकैः प्राग्वत् ।
प्रक्षेपमतः कुर्यादेवं बहुशोऽपि वा साध्यम् ॥ १८२ ॥ पुनरपि युग्मवर्णमिश्रस्वर्णानयनसूत्रम्
इष्टाधिकान्तरं चैव हीनेष्टान्तरमेव च । उभे ते स्थापयेध्यस्तं स्वर्णं प्रक्षेषतः फलम् ॥ १८३ ॥
अत्रोद्देशकः। दशवर्णसुवर्णं यत् षोडशवर्णेन संयुतं पक्वम् ।
द्वादश चेत्कनकशतं द्विभेदकनके पृथक् पृथग्ब्रूहि ।। १८४ ॥ बहुसुवर्णानयनसूत्रम्
व्येकपदानां क्रमशः स्वर्णानीष्टानि कल्पयेच्छेषम् । अव्यक्तकनकविधिना प्रसाधयेत् प्राक्तनायेव ।। १८५ ॥
I The reading in the Mss. is तत्क्षय, which is obviously erroneous.
For Private and Personal Use Only