________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ter
कालिकाचार्यकथा । निरुत्तरीकृतो बादमिच्छंस्तुच्छमतिः क्षणात् । गुरुभिर्गुरुरोषोऽपि, स्वं भक्तमिव दर्शयन् ॥७२॥ पुरोधाः माह भूपालं, पूज्यसाधुपदाङ्किते । मार्गे न युज्यते गन्तुं, भवेदाशातना यतः ॥७३॥ युग्मम् ॥ ये ध्रुवं 'ध्रुवपदं गमिनोऽमी, ये जिनाथ वश(शि)नां परमेवाः । आत्मकर्मफलभोग जस्ते, मादृशाः कथय के परवन्तः ॥७॥ ईष्टक् तद्वाक्यविभ्रान्त[:], राजाज्ञामधिगस्य सः । अकारयत् पुरे साधुयोग्यां रसवतीं नवाम् ॥७॥ आधाकर्म परिज्ञाय, ततो पर्युषितेऽपि हि । सूरयोऽगुमहाराष्ट्र, प्रतिष्ठानपुरं परम् ॥७॥
जिनपादाब्जरोलम्बसातवाहनभूभुजाः(जा) । प्रदत्ते साधवस्तस्थुः, साधुयोग्य उपाश्रये ॥७॥ अथ पर्युषणापर्वसमये समुपस्थिते ।। गुरून विज्ञापयामास, सोल्लासं भूमिवासवः ॥७॥ अस्मिन् देशे च पञ्चम्यामिन्द्रयात्रामहोत्सवः । कुया पयुषणापर्व, षष्ठयां तु भवदाज्ञया ॥७९॥ चभाषे प्रभुरेवं चेन्मेरोश्चति चूलिका । नातिक्रामति पञ्चम्या रात्रि पर्युषणा पुनः ॥४०॥ राजाऽवोचञ्चतुर्थी तत् , करोमि करुणाऽऽकर(र!) । अवकि(श्य) पर्युषितव्यं, गुरुणोक्तं भवत्विति ॥८१॥ सर्वसंधानुमत्याऽभूश्चतुर्थीवासरे तदा । पर्युषणापर्व सर्वोत्तम श्रीजिनशासने ॥८॥
कालान्तरेण दुःशिष्यदुविनीत्वदुःखतः । एकाकी कालकाचार्यों, निःससार महानिशि ॥४३॥ स्वशिष्याचार्यपट्टाब्जमरालस्य शनैः शनैः । वजन् सागरचन्द्राऽऽख्यसूरेः स्थानमियाय सः ॥४॥ स्थविरः कोऽप्यसावेवमवहां नाटयन्त्रयम् । अभ्यागतगुरोश्चक्रे, नाभ्युत्थानादिसत्क्रियाम् ॥८५॥ श्रीकालकगुरो, वा, व्याख्यानं रुचिरं मुनेः(ने!) । इति सागरचन्द्रेण, पृष्टः प्रभुरभाषत ॥८६॥
For Private And Personal Use Only