SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनदेवसूरिविरचिता कालिकसूरिकथा। [ रचनासंवत् १४ शताब्दि ] मोहान्धकारमारभारापहाररविमण्डलम् । अमानबहुमानेन, वर्द्धमानं नमाम्यहम् ॥१॥ पञ्चमीतश्चतुर्थी यैश्चक्रे पर्युषणामहः । तेषां कालकसूरीणां, चरितं किश्चिदुच्यते ॥२॥ धारावासमिति ख्यातं, पुरं सुरपुरोपमम् । तत्राऽभूद् भूपतिर्वैरिसिंहः सिंहपराक्रमः ॥३॥ देव्यस्य सुन्दरी, रूपसंपदा सुरसुन्दरी । तयोः कालकनामाऽभूत् , सूनुरन्यूनविक्रमः ॥४॥ सोऽन्यदा बहिरुद्याने, हयान् रमयितुं ययौ । सूरि गुणाकरं तत्र, धर्ममाख्यान्तमैक्षत ॥५॥ तस्यान्तिकमथो गत्वा, धर्म शुश्राव शुद्धधीः । सधः संसारवासाच, परं वैराग्यमासदत् ॥६॥ पितरौ समनुज्ञाप्य, भटपञ्चशतीयुतः । सरस्वत्याऽऽख्यया स्वस्रा, सार्दै व्रतमशिश्रियत् ॥७॥ शिक्षा द्विधाऽभ्यस्तवन्तं, श्रुताकूपारपारगम् । निवेश्य च निजे पट्टे, स्वर्गातिथिरभूद् गुरुः ॥८॥ क्रमेण कालकाचार्यः, साधुपञ्चशतान्वितः ।। क्षमा पुनानः पदन्यासैः, पुरीमुज्जयिनीं ययौ ॥९॥ आरामे समवासापर्षीद् , भगवान् सपरिच्छदः । तच्चरित्रैः पवित्रैश्च, चित्रीयन्ते स्म नागराः ॥१०॥ गर्दभिल्लो नृपोऽद्राक्षीत्, समायान्ती बहिर्भुवः । अन्यदाऽऽयो कृताश्चर्यरूपां सूरेः सहोदरीम् ॥११॥ कामग्रहग्रहीतस्तां, इठादानाय्य पूरुषैः । न्यधादधन्यः शुद्धान्ते, सूरिर्विज्ञातवांश्च तत् ॥१२॥ आस्थानं स्वयमागत्य, गुरुः शान्तमनास्ततः । तं दुष्टनृपमाचष्ट, सुधामधुरया गिरा ॥१३॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy