SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३४॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वत्त्वाद्भावग्राहा इत्युक्तम् | यशस्तीराः यशःशब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते सैव तीरं यासां ताः ॥ ५२ ॥ मृदुष्विति । संस्थिताः लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव बभ्रुवुः । " भ्रमरः कामुके भृङ्गे " इति दर्पणः । केचित्तु भूषणानीति पाठ कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । विस्रस्तभूषणानामपि कासांचिद्भूषणानीव बभूवुरित्यर्थ इत्याहुः ॥ ५३ ॥ रामानु० - मृदुष्विति । भूषण मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः । बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ५३ ॥ अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः । उपर्युपरि वाणां व्याधूयन्ते पुनः पुनः ॥ ५४ ॥ ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः । ननावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५५ ॥ ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम् । मुख मारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ ५६ ॥ शर्करा सवगन्धैश्च प्रकृत्या सुरभिः सुखः । तासां वदननिःश्वासः सिषेवे रावणं तदा ॥५७॥ रावणाननशङ्काश्च काश्चिद्रावणयोषितः । मुखानि स्म सपत्नीनामुपाजिवन पुनः पुनः ॥ ५८ ॥ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः । अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५९ ॥ राजयः भूषणविमर्दजनितरेखा: । विस्रस्तभूषणानामपिं कासांचिद्र भषणस्थानदेशा भूषणानीव बभूवुरित्यर्थः ॥ ५३॥ अंश्विति । मुखमारुतकम्पिताः अंशुकान्ताः सूक्ष्मवस्त्र दशाः । उपर्युपरि वक्राणां वक्राण्युपर्युपरि । “धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽम्रेडितान्तेषु" इति द्वितीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धूनातेः क्यादित्वात् ॥ ५४ ॥ ता इति । विधेयत्वात् स्त्रीलिङ्गता । नानावर्णसुवर्णानां नानाविधशोभनवर्णानाम् ॥ ५५ ॥ ववल्गुरिति । उपधान परिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५६-५८ ॥ अत्यर्थमिति । रावणे अत्यर्थ सक्तमनसः अस्वतन्त्राः पाननिद्रापरवशाः ताः सपत्नीभिरात्रातमुखाः वरस्त्रियः तदा मुखाप्राणसमये सपत्नीनां प्रियमेवाचरन् रावणोऽजित्रदिति बुद्धया स्वयमप्यजित्र | विलासा एव प्राहाः नक्रादयो यासां ताः । यशस्तीराः लक्षणया कान्तिरोधस इत्यर्थः ॥ ५२ ॥ मृदुष्विति । भूषणराजयः भूषणप्रमर्दनजनितरेखाः । विनस्तभूष जानामपि कासाञ्चिदूषणस्थानरेखाः भूषणानीव बभूवुरित्यर्थः ॥ ५३ ॥ ५४ ॥ ताः अंशुकान्ताः । नानावर्णसुवर्णानां नानावर्णाः सुवर्णाः शोभनवर्णाः यासां ताः ॥ ५५-५८ ॥ ननु ताः सपत्नीभिः कृतमुखाघ्राणं कथं सहन्त इत्यत आह-अत्यर्थमिति । अस्वतन्त्राः रागान्धाः । रावणे अत्पर्ये सक्तमनसः ताः सपत्नीभि For Private And Personal टी. सुं.कां. स० ९ ॥ ३४॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy