SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सीतामिति । चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण, सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिइतो बभूव । “सुग्धो मन्दो। विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चमः सर्गः ॥५॥ सीतामपश्यन मनुजेश्वरस्य रामस्य पत्नी वदतां वरस्य । बभूव दुःखाभिहतश्विरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ॥५॥ स निकामं विमानेषु विषण्णः कामरूपधृक् । विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥१॥ आससादाथ लक्ष्मी वान राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २॥ रक्षितं राक्षसै|रैः सिंहैरिव महदनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥३॥ रूप्यकोपहितैश्चित्रस्तोरणेहेमभूषितैः । विचित्राभिश्च कक्ष्यामि रैश्च रुचिरैर्वृतम् ॥४॥ गजास्थितैर्महामात्रैः शरैश्च विगतश्रमैः। उपस्थितमसंहाहयैः स्यन्दनयायिभिः ॥५॥ स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विपण्ण इत्यर्थः । लाघवेन वेगेन ॥१॥२॥ रामानु०-स इति । स लङ्कायामन्विष्टायामपि वैदेह्या अदर्शनेन विषण्णः। विचचार पुनर्लङ्कामिति सम्यक् । विचचार कपिलकामिति पाठेपि वैदेह्या अन्वेषणेन विषण्णस्य हनुमतोऽन्वेषणकर्तृत्वाभिधानात् पुनरन्वेषणं कृतवानित्यय मयों लभ्यते ॥ १॥ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवशनम् इति । रावणभवनं प्रविष्टस्य हनुमतः पुनरपि गवणभवनप्राप्त्यभिधानान्मध्ये लङ्कान्वेषणाभिधानाच पूर्व गवणभवनं प्रविष्टो हनुमान् तदानीं जाग्रहुरक्षःसंकीर्णतया सीतान्चेषगावसरोऽयं न भवतीति मत्वा ततो निष्क्रम्य पुनर्लकां विचित्य राक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥२॥ रक्षितमिति । चकाशे जहर्षे त्यर्थः॥३॥रामानु-रक्षितमिति । समीक्षमाणो भवनं चकाश इति । भवनमितस्ततो निरीक्षमाणः सन्नर्कवर्णभवनप्राकारतेजःसंवन्धात् सप्रकाशोऽभूदित्यर्थः । चचार कपिकुचर इति वा पाठः ॥ ३ ॥ सूप्यकेत्यादि । रूप्यकोपहितः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः । असंहाय अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः॥४॥५॥ हेमरेखा स्वर्णशलाकाम् । क्षनप्ररूढां क्षता च सा महढाच ताम, अन्तर्वां बहिश्छादितामित्यर्थः । यद्वा क्षते व्रणे प्रहढा मलीना बाणरेखा बाणशकला मित्यर्थः ॥ २५ ॥ २६ ॥ सीतामिति । चिरस्यापश्यन् चिरमन्विष्यापश्यन दुःखाभिभूतः अचिरस्थ सद्य एव मन्द इव मूढ इव बभूव ॥ २७ ॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चमः सर्गः॥५॥१॥२॥रक्षितमिति। चकाशे विस्मयादुल्ललासेत्यर्थः। चचार कपि कुन्नरः इति वा पाठः॥३॥ रूप्यकोपहितैः रजतनिर्मितैः। कक्ष्याभिः प्रकोष्ठैः। “कक्ष्या प्रकोठे हादेः" इत्यमरः॥४॥ महामात्रैः प्रधानः। “महामात्रा For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy