SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श्रा.रा.भू. टी..का. ॥२०॥ संस्थितैः । वर्द्धमानगः बदमाननाना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तरभयान लिख्यन्ते ॥६-९॥ रामानु० तामिति । श्रीमान्, अत्र श्रीशन स्वामिकार्यकरणरूपसंपदुच्यते । ददर्श च ननन्द व दुष्मवेशामपि लङ्कामक्लेशेन प्रविश्य सर्वतः पश्यामि तस्मादामसुग्रीवयोर्मनोरथसिद्धिरवश्य । भाविनीति ननन्देत्पर्थः ॥ ८॥ शुश्रावेति । त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरकण्ठशिरस्सु भवैः स्वरभूषितम् । ते च मन्द्रमध्यताराः ॥१०॥ भवनाद्भवनं गच्छन् ददर्श पवनात्मजः । विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ९॥ शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् । स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ १०॥ शुश्राव काञ्चीनिनदं नूपुराणां च निस्व नम् । सोपाननिनदांश्चैव भवनेषु महात्मनाम् । आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः॥ ११॥ शुश्राव जपतां तत्र मन्त्रान रक्षागृहेषु वै ॥ १२॥ स्वाध्यायनिरतांश्चैव यातुधानान ददर्श सः । रावणस्तवसंयुक्तान गर्जतो राक्षसानपि ॥१३॥राजमार्ग समावृत्य स्थितं रक्षाबलं महत् । ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ॥१४॥ दीक्षितान् जटिलान् मुण्डान गोजिनाम्बरवाससः। दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ १५ ॥ सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनदाः संभवन्ति तान् । आस्फोटितनिनादान व्यत्यस्तकरतलाभ्यां भुनाया। स्फालनशब्दान् । वेलितान सिंहनादान् ॥ १३॥ मन्त्रान् ऋग्वेदादीन् ॥ १२॥ स्वाध्यायनिरतान् ब्रह्मभागपाउनिरतान् ॥ १३ ॥ राजमार्गामति । मध्यमे गुल्मे नगरमध्यस्थितसैन्यसमाजे । चरान स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन् ॥ १४॥ दीक्षितानित्यादि । गोजिनाम्बरधारिणः वृषभचर्मरूपवस्त्रधारिणः । दर्भमुष्टिप्रहरणान् “यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः" इति स्मरणादिति भावः। अग्निकुण्डायुधान् जयार्थ प्रारद्वारगहता स्वस्तिकाख्या पुत्रधनप्रदा ॥" इत्युक्तः पद्मस्वस्तिकवर्द्धमानाख्यगृहाः प्रभुगृहभेदा इत्यर्थः ॥७-९॥ त्रिस्थानस्वरभूषितम्, उरकण्ठशिरस्थान योत्पन्नः मन्द्रमध्यमतारके: स्वरभूषितम् ॥ १०॥ सोपाननिनदान सोपानसशरत्कान्ताजनमञ्जीरध्वनीनित्यर्थः । आस्फोटितनिनादान हर्षोत्पन्नक्रियाविशेष जनितशब्दान श्वेलितान । सिंहनादान् ॥ ११-१३ ॥ मध्यमे गुल्मे नगरमध्यस्थसैन्यसङ्के । चरान नगरवृत्तान्तनिवेदकान् गूढचारानित्यर्थः ॥१४॥ गोजिनाम्बर वाससः गोचर्मवाससः विवसनश्चि । दर्भमुष्टिप्रहरणान अनिष्टनिवारकानुष्ठानसाधनतया दर्भमुष्टीनामायुधत्वम् । अग्निकुण्डायुधान् कृत्याद्युत्पादनद्वारा शत्रु ॥२०॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy