________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मयि वृद्धे साप्यवर्षिष्टेत्यर्थः॥ ४० ॥ अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृति वा न बुबुधे ॥४१॥ निकृतिमेव दर्शयति-ततोऽहमिति ॥४२॥ विसृष्टभुजा विसृष्टसन्धिकभुजा ॥४३॥ शृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ॥४४॥ कृत्य
न च मां साधु बुबुधे मम वा निकृतं हाम् ॥४१॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदय मादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्त हृदया सती ॥ ४३ ॥ शृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥४५॥ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरम् । प्रविष्टोऽहमविज्ञातो रक्षोभि भीमविक्रमैः ॥ ४६ ॥ तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥४७॥ जिघांसन्ती ततस्तां तु ज्वलदनिशिरोरुहाम् । सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥४८॥ प्रदोष काले प्रविशं भीतयाऽहं तयोदितः । अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥४९॥ यस्मात्तस्मादिजेतासि सर्व रक्षांस्यशेषतः॥५०॥ तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥५१॥ मात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः॥४५-४८॥ रामानु-जिघांसन्तीमित्यादि । प्रविशं प्राविशम् ।। ४८ ॥४९॥ भीतयेत्यादि । भीतया
तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ १९ ॥५०॥ सर्वरात्रं सर्वा रात्रिम् । “ अह-सर्व-" इत्यादिना समासान्तोऽच । अत्यन्त प्रवर्द्धते अवर्द्धत ॥४०॥ सा मा न बुबुधे अयं कामरूपीति मा न ज्ञातवतीत्यर्थः। मम कृतं विकृतं सा मया कृतं विकारस्वरूपं वा न बुबुधे ॥४१॥ तद्विकृतं
किमित्यत आह-ततोऽहमिति । हृदयमादाय हृदयं निकृत्य । प्रपतामि प्रापतम् ॥४२॥ विमृष्टभुजा विनंसितभुजा ।। ४३ ॥ शृणोमीति । सिंहिका हनुमता पाहतेति शुगतानो देवानां वाचः शृणोमीति सम्बन्धः॥४४॥ कृत्यम् आत्ययिकं प्राणान्तिकं कर्म चिन्तयन्नित्यर्थः ॥ ४५-४७ ॥ मा जिघासन्ती ज्वलदग्नितुल्य केशपाशाम् ॥ ४८ ॥ प्रविशं प्राविशम् ॥४९॥५०॥ सर्वरात्रं सर्वा रात्रिम् । तत्राहं मध्यरात्रे तु इति पाठः साधुः ॥५१॥
१४
For Private And Personal