SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तामिति । दृष्टया दूरादेव दर्शनेन । धृत्या अस्प नियमनजननघाटन । दाक्षिण्येन पाटवेन ॥ १८६॥ हृतहदिति । विधुरा आर्ता ॥ १८७ ॥ भीम। मित्यादि । आरिष्टं शुभ यया भवति तथा। यस्य सिंहिकारूपसत्त्वस्या दृष्टिः आयतिक्षमसूक्ष्मेक्षणम् ।मतिः अर्थतत्त्वनिश्चयः। क्रियावत्त्वं दाक्ष्यम् । यथा - तव तथा यस्य चत्वारि सन्ति तत्त्वया हतम् । तान्येव चत्वार्याह धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति या दृष्टिन वसीदति या तां तु दृष्टया च धृत्या च दाक्षिण्येन निपात्य च । स कपिप्रवरो वेगावृधे पुनरात्मवान् ॥ १८६ ॥ हृतहत सा हनुमता पपात विधुराऽम्भसि।ताहतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् । भूतान्याकाशचारीणि तमूचुः प्लव ला गोत्तमम् ॥ १८७॥ भीममद्य कृतं कर्ममहत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतांवर ॥ १८८ ॥ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ १८९ ॥ स तैः सम्भावितः पूज्यः प्रतिपन्न प्रयोजनः। जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ १९ ॥ प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् । योजनानां शतस्यान्ते वनराजि ददर्श सः॥ १९ ॥ ददर्श च पतन्नेव विविधद्मभूषितम् । द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ १९२॥ सागरं सागरानूपं सागरानूपजान दुमान् । सागरस्य च पत्नीना मुखान्यपि विलो कयन् ॥ १९३॥स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् । निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ १९४॥ मतिनविसीदति यदाक्ष्यं नावसीदति एतानि चत्वारि यस्य सन्ति तत्त्वया हतामिति योजना ॥ १८८ ॥ १८९ ॥ स इति । संभावितः पूजितः। प्रतिपन्न प्रयोजनः प्राक्प्रतिभासितकार्यसारः, स च स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ १९० ॥ प्राप्तेति । प्राप्तभूयिष्ठ पारः प्राप्तप्रायतीरः ॥ १९ ॥ ददशैति । मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलयः तस्योपवनानि ॥ १९२ ॥ सागरमिति । सागरस्य दृष्टया सूक्ष्मदर्शनेन । धृत्या धैर्येण । दाक्षिण्येन कौशलेन, क्षिप्रकारित्वेनेत्यर्थः । तस्याः संहारवैपुल्येन वा ॥ १८६ ।। सा सिंहिका हितहत विदारितहदया। अत एव विधुरा विहला ॥ ८७ ॥ अरिष्टं शुभम् ॥ ८॥ ८९ ॥ प्रतिपन्नप्रयोजना प्राप्तप्रकृतकार्यः ॥ १९० ॥ प्राप्त प्राप्तमाय भूयिष्ठपारं महातीरं येन ॥११॥ पतन गच्छन् । मलयः लङ्कायां मलयो नाम गिरिः ॥ २२ ॥९॥ मनिं कर्तव्यनिश्चयम् ॥ १९४ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy