SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir निश्चितार्थ इति । आपूज्येति च्छेदः ॥ ४ ॥ परावरज्ञाः त्याज्योपादेयविवेकयुक्ताः ॥५ ॥ प्रमापणं मारणम् ॥ ६ ॥ भूतानामिति निर्धारणे षष्ठी । भूतानां मध्ये ॥ ७ ॥ शास्त्रविपश्चित्त्वं विविधं पश्यतीति विपश्चित तस्य भावः विपश्चित्त्वम्. शास्त्रविषये विविधज्ञानोपेतत्वमिति यावत् ॥ ८॥ दूतदण्डः दूतयोग्य निश्चितार्थस्ततः साम्नाऽऽपूज्य शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥ क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व । वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥५॥ राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ६ ॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परा वरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ७॥ गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः । ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥ ८ ॥ तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥९॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ १० ॥ न पापानां बधे पापं विद्यते शत्रुसूदन । तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥ ११ ॥ अधर्मसूलं बहरोषयुक्तमनार्यजुष्टं वचनं निशम्य । उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥ १२ ॥ प्रसीद लडेश्वर राक्षसेन्द्र धर्मार्थ युक्तं वचनं शृणुष्व । दूता न वध्याः समयेषु राजन सर्वेषु सर्वत्र वदन्ति सन्तः ॥ १३ ॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ १४ ॥ www.kobatirth.org दण्डः ॥ ९-१२ ॥ प्रसीदेति । सर्वेषु सर्वत्र सर्वदेशेषु सर्वजातिष्वित्यर्थः ॥ १३ ॥ न केवलं दूतोऽयम अक्षादिवधेन शत्रुश्च तथाच हन्तव्य कार्य दूलवधरूपं कार्यम् । कार्यविधौ कर्तव्यविधाने स्थितः, कार्यकरणे कृतनिश्रय इत्यर्थः ॥ ३ ॥ शत्रुजितं च तमजं च ॥ ४ ॥ रोषं त्यज परावरजाः त्याज्योपादेयविवेकयुक्ताः ॥ ५ ॥ प्रमापणं मारणम् ॥ ६ ॥ ७ ॥ शास्त्रविपश्चित्त्वं शास्त्रपाण्डित्यसम्पादनम् । श्रमः केवलं श्रम पव, व्यर्थप्रयास एवेत्यर्थः ॥ ८ ॥ दूतदण्डः ते विहितो दण्डः ॥ ९ ॥ १० ॥ पापचारिणं राजद्रोहिणम् ॥ ११ ॥ अधर्मस्य मूलम् अधमूलम् । दोषः अपकीर्निरूपः ॥ १२ ॥ समयेषु स्वस्वामि For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy