________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१३२॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्रमिति त्वां प्रेषयामीति भावः ॥ १४ ॥ नानाशस्त्रैः वैशारथं प्रहरण सामर्थ्यम् । अवश्यं बोद्धव्यम् स्मर्तव्यमित्यर्थः । रणे विजयश्च काम्यः प्रार्थनीयः । जयार्थे सर्वाण्यस्त्राणि स्मर्तव्यानीत्यर्थः ॥ १६५ ॥ तत इति । दशसुत नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम । अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १५ ॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १६ ॥ ततस्तैः स्वगणे रिष्टैरिन्द्रजित प्रतिपूजितः । युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यपद्यत ॥ १७ ॥ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १८ ॥ स पक्षिराजोपमतुल्यवेगैर्व्यालेश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १९ ॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥ २० ॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरोऽसौ संप्रहृष्टतरो ऽभवत् ॥ २१ ॥ सुमहच्चापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ २२ ॥ प्रभावः दक्षसुता देवाः । तथोक्तं श्रीविष्णुपुराणे - "मनसा त्वेव भूतानि पूर्व दक्षोऽसृजत्तथा । देवानृषीन्स गन्धर्वानुरगान् पक्षिणस्तथा ॥” इति ॥ १६॥ ततस्ते रिति । युद्धोद्धतः कृतोत्साह इति पाठः ॥ १७ ॥ १८ ॥ स इति । पक्षिराजोपमतुल्यवेगैः पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालैः हिंस्रपशुभिः, सिंदैरिति यावत् । सिंहाश्च रक्षसां वाहनानि भवन्ति । “सर्पसिपशु व्यालो " इत्यमरः ॥ १९ ॥ २० ॥ ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठीविभक्तिकं हे अरिन्दम ! सङ्ग्रामे नानाशस्त्रैः वैशारद्यं सामर्थ्यम्, तवास्तीति शेषः । अतः अवश्यमेव योद्धव्यम् । रणे विजयः काम्यः प्रार्थनीय एव ॥ १५ ॥ दक्षसुतप्रभावः दक्षसुता देवाः तत्सदृशप्रभावः ॥ १६ ॥ स्वगणैः इष्टेः समास्यैः राक्षसैः । युद्धे उद्धतश्वासी कृतोत्साहश्च । संप्रपद्यत सम्प्रापद्यत ॥ १७ ॥ १८ ॥ पक्षिराजोपम तुल्यवेगैः
स० [अथ राज्ञः क्षत्रियस्य च कृत्यमाह - नानेति । नानाशास्त्रेषु धर्मार्थनीत्यादिशास्त्रेषु संग्रामे न वैशारयर, संपायमिति शेषः । यस्य रणे विजयः काम्यो भवति तेनोकं नानाशास्त्रम् अवश्यं बोद्धव्यमेवेत्यर्थः । यद्वा परस्य नानाशास्त्रेषु यद्वैशारद्यमस्ति तद्योद्भाऽवश्यमेव बोद्धव्यम् । बुद्ध्वापि रणे स्वस्य विजयः प्रार्थ्य एव । अहं जेष्याम्येवेति बुद्धया युद्धमारम्यमेव न तु तादृशशनोरपि निवर्तितव्यमित्यर्थः । केचितु नानाशखैरिति योद्धव्यमिति च पठित्वा नानाशस्त्रकरणकसंग्रामे वैशारचं सामर्थ्य तवास्ति, अतस्त्रयाऽवश्यं योद्धव्यपेत्र रणे जयश्च प्रार्थनीय एवेति व्याचक्षते ॥ १५ ॥
For Private And Personal
टी. सुं.प. स० ४८
॥१३२॥