SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥१२८॥ बा.रा.भू. प्रतिपूर्णमस्तिनेति पाठे अस्तिना घनेनेत्यर्थः । हेमदामा हेममयाश्वादिवन्धनरज्जुना । शशिसूर्यवर्चसा दामसु किञ्चित्सितपणं किञ्चित्सूर्यवत्पीतवर्ण मित्यर्थः । प्रतिपूर्ण वस्तुना शशिसूर्यवर्चसा हेमद (ना च विराजमानमित्यन्वयः । यद्वा कचिच्छशिवर्चता कचित्सूर्यवर्चसा च विराजमानमित्यन्वयः । स पूरयन् खं च महीं च साचल तुरङ्गमातङ्गमहारथस्वनैः । बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपाग मत् कपिम् ॥ ७ ॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मित जात संभ्रमः समक्षताक्षी बहुमानचक्षुषा ॥ ८ ॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः । विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्नि वारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रु पराजयोर्जितम् । अवेक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ॥ ११ ॥ स हेम निष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् । तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥ १२ ॥ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः । कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च रुदवि चुक्षुभे ॥ १३ ॥ वितानादिषु शशिवर्चसा हेममयरथाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्तिः । तच्छन्दद्वयं च पूर्वानुस्मरणार्थम् ॥६॥ सः अक्षः । हिः प्रसिद्धौ || ७|| हरीक्षणः सिंहप्रेक्षणः । प्रजाक्षये अवस्थितं प्राणिनाशे प्रवृत्तम् । विस्मितश्वासौ जातसम्भ्रमश्व | विस्मितजातसम्भ्रमः ॥ ८ ॥ स तस्येति । विधारयन् निर्धारयन् । विचारयन्निति च पाठः ॥ ९-१२ ॥ ररासेति । न तताप भानुमान् । सूर्योदयः पूर्वे निर्जगामेति सम्बन्धः । दिवाकराभमित्यादि पुनर्वचनं रविप्रभमित्यस्यानुस्मरणार्थम् ॥ ६ ॥ तोरणस्थितं तोरणाश्रयम् । आसीनम् उपविष्टम् ॥ ७ ॥ हरक्षणः सिंहदृष्टिः ॥ ८ ॥ अभिवर्द्धते तेजसा अभ्यवर्धतेत्यर्थः ॥ १ ॥ स्थिरं स्थितः सः प्रसमीक्ष्पविक्रमं दर्शनीयपराक्रमम् । संयति रणे । दुःखं निवारणं यस्य तम् । त्रिभिः शरैः प्रचोदयामास युद्धाय प्रेरयामास ॥ १० ॥ ११ ॥ आनुपराक्रमः तीक्ष्णपौरुषः । समागमः संप्रहारः ॥ १२ ॥ ररासेति । अक्षयुद्धसमये सूर्योदयाभावाद For Private And Personal टी. सुं.का. स० ४७ ॥१२८॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy