SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामस्यापीत्याह - शरैरिति ॥ ३० ॥ तदिति । तस्य अनुरूपं विक्रान्तं यथा भवेत्तथा उपपादय कुरु ॥ ३१ ॥ अथपहितम् अर्थयुक्तम् । सहितम् पर स्परसङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं पूर्वमनुक्तम् उत्तरं वाक्यमब्रवीत् ॥ ३२-३४ ॥ तस्येति । मनःसङ्कल्पसंपाताः मनोव्यापार तुल्य गमनाः तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ॥३१॥ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् । निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥ देवि हर्यक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ३३ ॥ स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः || ३४ ॥ तस्य विक्रम सम्पन्नास्सत्त्ववन्तो महाबलाः । मनस्सङ्कल्प संपाता निदेशे हरयः स्थिताः ॥ ३५ ॥ येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ३६ ॥ असकृत् तैर्महो त्साहैः ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ३७ ॥ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ३८ ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९ ॥ तदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४० ॥ मम ष्टष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ ४१ ॥ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ४२ ॥ न सज्जते न विलम्बते ॥ ३५-३७॥ प्रत्यवरः हीनः । पूर्व चतुर्णामेवात्र गतिरिति विचारप्रकारमात्रमुक्तम् । अत्र तु परमार्थः । यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्निहिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः ॥ ३८ ॥ ३९ ॥ तदलमिति । एकोत्पातेन एकयत्नेन ॥४०॥ ४१ ॥ तौ हीति । विक्रान्तं विक्रमः ॥ ३१ ॥ अर्थोपहितम् अर्थयुक्तम् । सहितं परस्परं सङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं प्रागनुक्तम् ॥३२-३४॥ तस्येति । मनःसङ्कल्पसंपाताः मनोवेगसदृशवेगवन्त इत्यर्थः ॥ ३५-३९ || एकोत्पातेन एकप्लुतेन ।। ४०-४३ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy