________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तत्सत्ता चेन्मद्रक्षणस्य न कापि हानिः । अतस्तत्सत्तैवास्माभिराशास्यते । तेन तस्य सुखमस्ति किमिति मया पृष्टमिति वद । एवंच लोकवदस्माभिश्च पतस्मात्किचिदपेक्षितं चेत् लोकेर्यत्कार्य तत् कार्य मयापि कार्यमित्याह शिरसा चाभिवादय । अहं तं शिरसा प्रणतवत्यस्मीति तमभिवादय । प्रणिपातं
कुर्वित्यर्थः । कथं नायिका नायकं शिरसा प्रणमेदिति चेत् आचारप्रधानजनककुलनन्दिन्यैवमनुष्ठितमिति किमत्र प्रमाणं प्रष्टव्यम् । प्रणयरोषेणैवमाहेति चेन्न । हनुमद्वचनेन तस्य शान्तत्वात् । ननु ममार्थे मत्कार्यसिद्धयर्थं तं प्रणमेत्यर्थः किं न स्यादिति चेत्, ममार्थ इत्यस्योभयत्रान्वयात् । पूर्व
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। ऐश्वर्य च विशालायां पृथिव्यामपि दुर्लभम् ॥५७॥ पितरं मातरं चैव संमान्याभिप्रसाद्य च। अनुप्रवजितो रामं सुमित्रा येन सुप्रजाः ॥५८॥ आनुकूल्येन धर्मात्मा त्यक्त्वा सुख मनुत्तमम् । अनुगच्छति काकुत्स्थं भ्रातरं पालयन वने ॥ ५९ ॥ सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।
पितृवदर्तते रामे मातृवन्मां समाचरन् ॥६०॥ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥६॥ पमित्र मया पृष्टमिति पृच्छेत्यर्थस्यावश्यकत्वादत्रापि मया प्रणतमिति प्रणमेत्यस्य स्वरसत्वात् ॥ ५६ ॥ तनि०-लोके स्त्रियः स्वजीवनदशायां पोषकं पर
बोनारकं च पुत्रमभिलपन्नि । कौसल्या तु विपुलमनस्कतया सर्वलोकरक्षकं पुत्रं प्रार्थ्य व्रताचरणेन लब्धवती । तत्प्रार्थना विफला किम् । अहं लोकशब्दान्तर्भूता : भवामि किम् । जलसमीपस्थितस्य सस्पस्य शुष्कतावत् सर्वावस्थास्वप्यनुसृताया मम रक्षणे तत्प्रार्थना संकुचिता किम् । तं ममार्थे सुखं पृच्छ मम रक्षणं न पार्थनीयम्, तस्य मनसि तिष्ठत्येव, किन्तु त्वया तस्य सुखजननेन भाव्यम् । तस्यावस्थाने अस्मद्रक्षणं भविष्यतीति तदेवाशास्यते । शिरसा चाभिवादय अग्निसाक्षिकं गृहीतपाणिना च रक्षणं कार्य तन्न क्रियते, इतरसाधारण्येन वा रक्षणं क्रियताम् । तैर्यक्रियते तन्मयाप्यभिवादनं क्रियते इत्यस्मदर्थमभिवादनं कुरु ॥ १६ ॥ सजश्चेति, सन्तीति शेषः । सगादयः सन्ति पृथिव्यां दुर्लभमैश्वर्यमप्यस्ति । तथा पितरं मातरं चैव संमान्य सुमित्रा येन सुप्रजाः सः राममनु प्रत्र
जितः ॥२७॥५८॥ आनुकूल्येन भत्त्येत्यर्थः॥९॥ समाचरन् परिचरन् ॥ ६॥ ६१ ॥ INथिव्यामपि दुर्लभमित्यत्र त्यक्त्वेत्याकृष्य योज्यम्। अनुमब्रजितो राममित्यत्र स इति शेषः॥५७-५९॥ समाचरन परिचरन् ॥ ६०-६२॥
For Private And Personal