________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चा.रा.भू.
H०३१
॥८
॥
हनुमान मे वाक्यं सीता कथं केन प्रकारेण शृणुयात्कथं नोद्विजेतेति विचार्य मतिमान प्रशस्तमतिः। मति तत्कालोचितकर्तव्यविषयाम् । चकार निष्पा टी.सु.का. दयामास ॥४०॥ राममिति । स्वबन्धुं राममनुकीर्तयन् “लक्षणहेत्वोः-" इति हेत्वर्थे शतृप्रत्ययः । नैनामुद्रेनयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेणी रामस्य कीर्तननैवानुद्विग्नां करिष्यामीत्यर्थः । तद्वन्धुगतमानसां स चासो बन्धुश्च तद्वन्धुः रामः तद्गतमानसाम् ॥ ४१-४३ ॥ इतीति । जगतिपतेः। इति दीर्घाभाव आपः । जगादेति वक्ष्यमाणसर्गार्थसंग्रहः ॥४४॥ इति श्रीगोविन्द श्रीरामा शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः३०
राममक्लिष्टकर्मागं स्वबन्धुमनुकीर्तयन् । नैनामुद्रेजयिष्यामि तद्वन्धुगतमानसाम् ॥४१॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥४२॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रवन् गिरम् । श्रद्धास्यति यथा हीयं तथा सर्व समादधे॥४३॥ इति स बहुविधं महानुभावो जगतिपतेःप्रमदामवेक्षमाणः। मधुरमवितथंजगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥४४॥ इत्यार्षे श्रीमत्सुन्दरकाण्डे त्रिंशःसर्गः ॥३०
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ १॥ एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थ निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूयतेऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा "पाठये गेये च मधुरम्" इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्मृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो जायते लोके,अत्र न तथा यत्र, शब्दसंसर्गों जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञानमपि तद्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना स्वयं रसजनकम् । वैदेह्याः वैदेही तदेवाह-राममिति । स्वबन्धुं स्वस्या देव्याः बन्धुम् । अनुकीर्तयन् । हेतौ शतृप्रत्ययः । अनुकीर्तनाद्धेतोः । नैनामुढे जयिष्यामि मदूपदर्शनभन्तरेण रामसङ्कीर्तने नैव अनुद्विग्नां करिष्यामीत्यर्थः । स चासौ बन्धुश्च तद्वन्धुः रामः तं गतं मानसं यस्यास्ला ताम् ॥ ४१-४३ ॥ जगतिपतेः। दीर्घाभाव आर्षः । जगाद मनसा , ॥४४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिंशः सर्गः ॥३०॥ एवमिति । चिन्ता चिन्तयित्वा, कर्तव्यमर्थ
स-सुनन्धुमनुकीर्तय निति पाठः। सुबन्धु कदापवियोगिवान्धवम् । तद्बन्धुः सः तपी बन्धुः रामः। तद्भगतचेतना तस्य रामस्य बन्धुरातः कोबाऽऽगच्छेदिति तद्भतमानसा वा ।। ४१ ॥ जगतिपतेः भूपतेः। “ड्यापोः संज्ञाछन्दसोः" इति संज्ञात्वात् "जाहविसूर्यकन्ययोः" इत्यादिवदवः । अजगतिपतेरिति वा छेदः । अनस्य चतुर्मुखस्य गतिः उदरतो निस्सरण सद्गतिर्वा यया सा अजगतिः रमा तस्याः पतिस्तस्पेति वा॥४॥
॥८
॥
For Private And Personal