________________
Shri Mahavir Jain Aradhana Kendra
का.रा.भू. ॥८२॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इत्यत आह-प्रणिपातप्रसन्ना हीति ॥ ४४ ॥ स्वप्रदर्शनकथनेन सीतायाः शोभनं भावीत्यभिधाय शरीरलक्षणप्रदर्शनेनापि शुभं भावीत्याह-अपि चेति । लक्षणं दुःखप्राप्तिहेतुभूतं रेखोपरेखादिकम् ॥ ४५ ॥ तर्हि कुतस्तादृशदुःखानुभव इत्यत्राह - छायेति । छायावैगुण्यमात्रम् उपलक्षय इत्यनु पज्यते । वैहायसं विमानम् । उपस्थितां प्राप्ताम्, दिव्यभोगामिति यावत् । अन्वयस्तु छायावैगुण्यमात्रं तूपलक्षये अतः अदुःखाई दिव्यभोगा
अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये । विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ॥ ४५ ॥ छायावैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् । अदुःखाहामिमां देवीं वैहायसमुपस्थिताम् ॥ ४६ ॥ अर्थसिद्धिं तु वैदेह्याः पश्या म्यहमुपस्थिताम् । राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥४७॥ निमित्तभूतमेतत्तु श्रोतुमस्या महत् प्रियम् ॥ ४८ ॥ दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् । ईषच्च हृषितो वाऽस्या दक्षिणाया दक्षिणः ॥ ४९ ॥ अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते । करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः । वेपमानः सूचयति राघवं पुरतः स्थितम् ॥ ५० ॥ मिमां दुःखम् उपस्थितमिति शङ्क इति । अत्र छायावैगुण्यं नाम कान्तिवैकल्यम् । “छाया त्वनातपे कान्तौ ” इत्यमरः । यद्वा छायाऽत्रानातपः तद्वैगुण्यं तस्य विषमत्वम् । सर्वलक्षणलक्षिताया अपि छायावैगुण्यमेतावददुःखकरमासीदिति भावः ॥ ४६ ॥ ४७ ॥ इदानीं रामवार्ताश्रवणसूचक | माह-निमित्तभूतमिति ॥ ४८ ॥ चक्षुरिति । अदक्षिणमित्येतदवाप्यनुषज्यते । हृषितो वा हृष्ट इव पुलकित इव । पद्मपत्रमित्यनेन रोगादिदृष्टहेत्वन्तर राहित्यमुक्तम् ॥ ४९ ॥ अकस्मात् दृष्टहेत्वन्तरं विना ॥ ५० ॥
अभययाचन कारणमाह-राघवादिति ॥ ४३ ॥ ४४ ॥ न केवलं स्वप्रदर्शनमेवास्याः शुभावेदकम् किन्तु प्रत्यक्षदर्शनमपि बस्तीत्यासर्गसमाप्तेराहु-अपिचेत्या दिना । अङ्गेषु विरूपं लक्षणं नोपलक्षय इति सम्बन्धः ॥ ४५ ॥ छायावैगुण्यं कान्निवे कल्यम, वैवर्ण्यमिति यावत । तावन्मात्रमुपलक्षय इत्यनुकृष्यते, एतावतैव अदुःखार्ही दुःखानहम् प्रत्युत वैहायसमुपस्थित दिव्यभोगार्हाम् इमाम् इदं दुःखमुपस्थितं प्राप्तमिति शङ्के, मम्य इत्यर्थः । अर्थसिद्धिं प्रयोजनसिद्धिम् । कुत इत्यत आह-राक्षसेन्द्रेति । राक्षसेन्द्रविनाशराघवविजयरूपम् ॥ ४६ ॥ ४७ ॥ महत्प्रियं श्रोतुम् एतत्स्वमदर्शनम् अस्या निमित्तभूतमिति सम्बन्धः ॥ ४८ ॥ हृषितो वा हषित इव ।। ४९ ।। ५० ।।
For Private And Personal
टी. सुं.कां.
स० २७
॥८२॥