________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyarmandir
www.kobatirth.org
बा.रा.भ.
स०२६
इति ॥३९-४ ॥ अथवेति । धर्मकामस्य तस्य कामानपेक्षिण इत्यर्थः । मया भार्यया कोऽर्थः । परमात्मनः उत्कृष्टतभावस्य ॥ १२॥ दृश्य टी.सं.का. Deeमान इति । सौहृदं नास्त्यपश्यतः अदृश्यमाने प्रीतिर्न भवति । तस्माददृश्यायां मयि रामस्य किं प्रीति सीदित्यर्थः । एवमाशद्वितं प्रतिषेधति-नाश
यन्तीति । कृतनाः प्रथममुत्पन्नां प्रीतिं नाशयन्ति । न तु रामो नाशयिष्यति, मयि प्रीतिमिति शेषः ॥४३॥ किस्विति । न गुणाः दुष्कृतानि ॥४४
अथवा नहि तस्यार्थों धर्मकामस्य धीमतः। मया रामस्य राजर्षर्भार्यया परमात्मनः ॥४२॥ दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ॥ ४३ ॥ किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम । याऽहं सीदामि रामेण हीना मुख्यन भामिनी ॥ ४४ ॥ श्रेयो में जीवितान्मर्तु विही नाया महात्मनः। रामादक्लिष्टचारित्राच्छ्राच्छत्रुनिबर्हणात् ॥४५॥ अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ। भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ ४६॥ अथवा राक्षसेन्द्रेण रावणेन दुरात्मना । छद्मना सादितौ शरी भ्रातरौ रामलक्ष्मणौ ॥४७॥ साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा। न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति ॥४८॥ धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः । जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥४९॥ श्रेय इति । मर्तुमिति भावार्थे तुमुन्, मरणमित्यर्थः। महात्मनः रामादिहीनायाः महात्मना रामेण हीनायाः। तृतीयाथै पञ्चमी ॥ ४५ ॥ अथवेति । न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ॥ ४६॥ सादितौ हतौ ॥४७॥ वर्तति वर्तमाने ॥१८॥ महात्मानः महाधैर्याः । त्यक्तकिल्बिषाः त्यक्तपापाः। VIअथवा नहीत्यादि सार्यश्लोकमेकं वाक्यम् । धर्मकामस्य न त कामपरस्य । परमात्मनः आत्मारामस्येत्यर्थः ॥ ४२ ॥ अथ रामगुणाभिज्ञतया प्रेमनाशपक्षस्तत्रा
सम्भावित इति स्वयमेवाह-दृश्यमान इति । केषाश्चिद दृश्यमाने, वस्तुनीति शेषः । सौहदं यथा भवति तथा प्रीतिर्भवेत् । अपश्यतः अदृश्यमाने सति प्रीतिर्न भवेत् । कुतः कृतघ्नाः नाशयन्ति, प्रीतिमिति शेषः । रामस्तु न नाशयतीति सम्बन्धः। यद्वा सौदं स्नेहम् अपश्यतः पुंसः दृश्यमानेऽपि, मुहदीति शेषः। Mप्रीतिर्न भवेत् किमुत अदृश्यमाने, कुतः ! कृतघ्नाः नाशयन्ति सौदमित्यनुकर्षः। कृतज्ञो रामस्तु न नाशयतीति सम्बन्धः ॥ ४३ ॥ ५४॥ अधास्यामवस्थाओं
स्वकर्तव्यमाह-श्रेय इति । मर्तु श्रेयः, मरणमेव श्रेय इत्यर्थः ॥ ४५-५८ ॥ प्रियाप्रिये इष्टानिष्टे ॥ १९ ॥
For Private And Personal