SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.obatirth.org Acharya Shri Kalashsagarsur Gyanmandir तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ॥१॥ एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ॥२॥ रामानु-तयेति । तासां वद तीना तासु बदन्तीषु सतीवित्यर्थः । अस्माटोकात् परम् एवमुक्तेति श्लोकः । मनस्विनीति । पातिव्रत्ये दृढमनाः । अतः परं न मानुषीति श्लोकः ॥ १॥२॥ खादत भक्षयत ॥३॥ शर्म सुखम् ॥ ४॥ रामानु-न मानुपीति । काम लादत यथेच्छ भक्षयत । अतः परं सा राक्षसीति श्लोकः । अतः परम् वेपत इति श्लोकः ॥ ३ ॥४॥ कोकैः ईहामृगैः ।। तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रोद जनकात्मजा ॥१॥ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥२॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः॥३॥ सा राक्षसीमध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥४॥ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोंकैरिवार्दिता ॥५॥सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥६॥ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥७॥ "कोकस्त्वीहामृगो वृकः" इत्यमरः ॥५॥ रामानु:-कोंक ईहामृगैः । “ कोकस्त्वीहामृगो वृकः " इत्यमरः । अतः परम् सा विति श्लोकः ॥ ५॥ अशोकस्य हनुमदाधि ष्ठितशिशुपासन्निहितस्य ॥६॥ अन्तम् अवधिम् । अधिगच्छति अध्यगच्छत् ॥७॥ रामा-अशोकस्य विपुलां शाखामालम्ब्य । हनुमदधिष्ठितशिशुपामूलं प्राप्तायास्सीताया इत्यादिना नृत्यामोऽथ निकुम्भिलामित्यन्तेन । तत इत्यादि श्लोकत्रयमेकं वाक्यम् । रावणेन हतामिमां सीतां दृष्ट्वा मे मम दौ«दा स्नेहः अस्यामभूदिति शेषः। एवं परुष वदन्त्या विकटायाः यकृत्प्लीहादीनि खादेयमिति मे मतिरिति चण्डोदरी नाम राक्षसी वचनमब्रवीदिति सम्बन्धः। ततस्तु प्रघसेत्यादिश्लोकद्वयमेकं वाक्यम् ।। नृशंसायाः क्रूरायाः अस्या विकटायाः कण्ठं पीडयामः । अमानुषीत छेदः । अमानुषी विकटा नाम राक्षसी । ततस्त्वजामुखीत्यादिश्लोकद्वयमेकं वाक्यम् । इमा विकटाम् ॥ ४८ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकापायां सुन्दरकाण्डव्याख्यायां चतुर्विशः सर्गः ॥ २४ ॥ | तथा तासामिति ॥१॥ मनस्विनी पातिव्रत्ये दृढमनाः ॥२॥ कामं यथेच्छम् । सीताविलापस्य वास्तवार्थस्तु-श्रीरामषियोगेन धोरराक्षसपुरावस्थानेन विरूप नाराक्षसीसमागमेन च विविधप्रलापादिकमिति ज्ञेयम् । अस्मिन् काण्डे यत्र यत्र सीताप्रलापः तत्र तत्र एवमेवोहनीयः ॥३॥४॥ कोकैः वृकैः ॥५॥ अशोकस्य । विपुला शाखामालम्ब्य हनुमदधिष्ठितशिशुपामूलं प्राप्तायास्सीताया अशोकशाखालम्बनाभिधानात अशोकशाखाः शिशुपाशाखाश्च सम्मिलिता वर्तन्त । For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy