SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.म. स. ११ त्याह-सिद्धिमिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ६४॥ ब्रह्मेत्यादि । शरूवः ॥६५॥६६॥ उक्तमर्थ पुनः संग्रहेणाह-सिद्धिं सर्वाणि भूतानीति। भूतानां प्रभुः उक्तब्रह्मरुदायधिपतिः, परिशेपाद्विष्णुरित्यवगम्यते । पन्थाः गोचरः येषां ते पपिगोचराः मार्गवर्तिनः ॥ ६॥ तदिति । तत्तस्मात् । ब्रह्मा स्वयम्भूर्भगवान देवाश्चैव दिशन्तु मे। सिद्धिमनिश्च वायुश्च पुरुहूतश्च वजभृत् ॥६५॥ वरुणः पाशहस्तश्च सोमादित्यौ तथैव च । अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥६६॥ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः । दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥ तदुन्नसं पाण्डुरदन्तमवणं शुचिस्मितं पद्म पलाशलोचनम् । द्रक्ष्ये तदायर्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥६८॥ क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालंकृतवेषधारिणा । बलामिभूता बला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३॥ स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतोमहातेजाः प्राकारंतस्य वेश्मनः॥१॥ स तु संहृष्टसर्वाङ्गःप्राकारस्थो महाकपिः। पुष्पिताग्रान वसन्तादौ ददर्श विविधान द्रुमान ॥२॥ Mकारणात् । उन्नता नासिका यस्य तदुन्नसम् । “उपसर्गाच" इति समासान्तोऽन् प्रत्ययः नसादेशश्च । अव्रणम् अनवद्यम् । तत् अभिज्ञातत्वेन Mरामेण निवेदितम् ॥ ६८॥ सुदारुणालंकृतवेषधारिणा सुदारुणत्वेऽप्यापातप्रसत्रवेषधारिणा ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे । शृङ्गारतिलकाख्याने त्रयोदशः सर्गः॥१३॥ स मुहूर्तमित्यादि । इवान्दो वाक्यालकारे। प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः राव Mणस्य गृहात् । अवप्लुतः प्राप्तः ॥२॥ स विति । संहृष्टसर्वाङ्ग पुलकितसर्वाङ्गः । वसन्तादौ "पौर्णमास्या मासान् संपाचं" इति पक्षमनुसृत्य फाल्गुन दास्पन्ति ददतीत्यर्थः । पधिगोचरा अदृष्टाश्च ये ते सिद्धिं दास्यन्ति ॥ ६॥ तदिति । समुनता नासा यस्य तत् समुन्नसम् । अवणमनवद्यम् ॥१८॥ क्षुद्रेणेति। सुदारुणत्वेऽप्यलंकृतवेषधारिणा प्रसन्नवेषधारिणा, रावणेनेति शेषः ॥ ६९॥ इति श्रीमहेयरसीर्यविरचितायो श्रीरामायणतत्वदीपिकारूपायो सुन्दरकाण्ड व्याख्यायां त्रयोदशस्सर्गः ॥१३॥ स इति । ताम् अशोकवनिकाम् मनसा अधिगम्य, तत्र मनो निधायेत्ययः। तस्य रावणस्य । वेश्मनः वेश्मप्राकारादित्यर्षः। For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy