________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संस्कृतं श्राद्धोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन श्राद्धकल्पावगतेन ॥ ५९ ॥ भुक्तवतां भुक्तवत्सु । वदन्नब्रवीत् व्यक्तमत्रवीत् ॥ ६० ॥ व्यनिष्पतत् विनिरपतत् ॥ ६१ ॥ रामानु० - मेषवनदन् मृतसञ्जीवनीवैभवात् उदरान्तरिति शेषः ॥ ६१ ॥ तैरिति बहुवचनं परिवारापेक्षया । संहत्य बहुश इति
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५९॥ ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् । वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ६० ॥ ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषव न्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ६१ ॥ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः । विना शितानि संहत्य नित्यशः पिशिताशनैः ॥ ६२ ॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ६३ ॥ ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः । भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्य भाषत ॥ ६४ ॥ स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् । अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ॥ ६५ ॥ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ ६६ ॥ अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यावत् ॥ ६२ ॥ अनुभूय श्राद्धवरणादिकमनुभूय ॥ ६३ ॥ ततः श्राद्धान्ते । सम्पन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ॥ ६४-६६ ॥ निधनसंश्रयं नाशविषयम् । प्रधर्षयितुं हिंसितुम ॥ ६७ ॥
ततः निमन्त्रणानन्तरं वातापिं भ्राता इल्वलः भोजयामासेति द्विकर्मको धातुः । भुक्तवतां सताम् । ततः भोजनानन्तरम् ॥ ५९ ॥ ६० ॥ विनिष्पतत् अडभाव आर्षः ॥ ६१ ॥ तैरिति बहुवचनम् । तयोः परिजनाभिप्रायेण ॥ ६२ ॥ प्रार्थितोऽभूदिति शेषः । तदनु तत्प्रार्थनामङ्गीकृत्य भक्षितः अगस्त्येनेतिशेषः ॥ ६३ ॥ ततः श्राद्धान्ते । सम्पन्नं समृद्धं वा इत्युक्त्वा पृष्ट्वा हस्तावसेचनं उत्तरापोशनं दत्त्वा ॥ ६४ ॥ ६५ ॥ जीर्णस्य जीर्णितस्य ॥ ६६ ॥ प्रधर्षयितुं हिंसितुम् ॥ ६७ ॥ ६८ ॥
For Private And Personal Use Only