SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir इहैवेति । सीतामन्विष्य तस्याः प्रवृत्तिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहेव यमक्षयं यमगृहं गमिष्यामः ॥ ३६-३८॥ श्रुत्वेति । अङ्गदस्या प्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः। विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे साधेकोनचत्वारिंशयोकाः॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥ इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा । नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ३६॥ प्लवङ्गमानां तु भयादितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन विलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३७॥ इर्द हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् । इहास्ति नो नैव भयं पुरन्दरान्न राघवादानरराजतोऽपि वा ॥ ३८॥ श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः। यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः॥३९॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः॥५३॥ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥ बुद्धया ह्यष्टाङ्गया युक्त चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनुमान वालिनः सुतम् ॥ २॥ अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे-तथेत्यादि । राज्यं हृत मेने । राज्यं कर्तुं सामर्थ्यमस्तीति मिन इत्यर्थः ॥ १॥ अष्टाङ्गया "ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इत्युक्ताष्टाङ्गयुक्तया । चतुर्वल समन्वितं बाहुबलमनोबलोपायबलबन्धुबलयुक्तम् । चतुर्दशगुणम् देशकालज्ञता दाढये सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता श्रुत्वाऽङ्गदस्यापि वचोऽनुकलम अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यर्थः । प्रतीता हृष्टाः सन्तः । असक्तमविलम्बम् ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां त्रिपक्षाशः सर्गः॥ ५३ ॥ अथ महाप्राज्ञो हनुमान् तारादिमतस्याप्रतिपिद्धत्वाददं तन्मतावलम्बिन मवगम्य तस्याशंसितं प्रतिषेधयति-तथेति । राज्यं हृतं मेने, राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ॥ १॥ सामर्थ्यमेव प्रतिपादयति-बुद्धचा हीत्यादिना । अष्टाङ्गया अष्टगुणया । ते च गुणा:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । उहोऽपोहोऽर्थविज्ञानं तद्विज्ञानं च धीगुणाः ॥" इति । चतुर्बलसमन्वितम् बाहु बलमनोवलोपायबलबन्धुबलसमन्वितम् । यद्वा चतुर्विधवलानि साभादयश्चतुरुपायाः। चतुर्दशगुणास्तु-"देशकालज्ञता दार्थ सर्वनेशसहिष्णुता । सर्वविज्ञानिता । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy