________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
टी.कि.कई.
॥१३॥
स.५०
नीलवैडूर्येत्यादि श्लोकदयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ॥२८॥२९॥ काञ्चनानीत्यादि । हेमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ।। ३०-३६ ॥ रामानु०-हैमराजतभौमानि हेमरजतमपभूपदेशानि ॥३१॥३२॥ मणि
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः। महद्भिः काञ्चनैः पद्मव॒ता बालार्कसन्निभैः ॥ २८ ॥ जातरूपमयैर्मत्स्यै महद्भिश्च सकच्छपैः । नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः॥ २९ ॥ काञ्चनानि विमानानि राजतानि तथैव च । तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ३०॥ हैमराजतभौमानि वैडूर्यमणिमन्ति च । ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः॥३१॥पुष्पितान फलिनो वृक्षान प्रवालमणिसन्निभान् । काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ॥ ३२ ॥ मणिकाञ्चनचित्राणि शयनान्यासनानि च । महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥ ३३ ॥ हैम राजतकांस्यानां भाजनानां च सञ्चयान । अगरूणां च दिव्यानां चन्दनानां च सञ्चयान् ॥ ३४ ॥ शुचीन्यभ्यव हार्याणि मूलानि च फलानि च । महार्हाणि च पानानि मधूनि रसवन्ति च ॥ ३५ ॥ दिव्यानामम्बराणां च महा होणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् ॥ ३६॥ तत्र तत्र च विन्यस्तान दीप्तान्वैश्वानर प्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् ॥ ३७॥ तत्र तत्र विचिन्वन्तो विले तस्मिन्महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥३८॥ काश्चनचित्राणि शयनान्यासनानि चेत्यतः परम्-महाणि च पानानि मधूनि रसवन्ति च । दिव्यानामम्चराणां च महार्हाणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान दीप्तान् वैश्वानरप्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् । इत्येष पाठक्रमः ॥ ३३ ॥धान निर्मलान् ॥ ३७-३९।। नीलवैडूर्येत्यादि श्लोकद्वयमेकं वाक्यम् । पतगावृताः बालार्कसन्निभैमहद्भिः काञ्चनैः काचनमयैः पौः वृताः। नीलवैडूर्यवर्णाः पद्मिनीः सकच्छपैः जातरूपमये मत्स्यैर्वृताः। प्रसन्नसलिलावृताः नलिनीश्च दहशुरिति योजना ॥ २८-३१ ॥ पुष्पितानिति । मधूनि पुष्परसाः " मधु मद्ये पुष्परसे" इत्यमरः ॥ ३२-३४ ॥ पानानि उदकानि ॥ ३५-३८॥
वाणामणि पानानि मामानां चन्दनानानानि दहशुस
॥१३॥
For Private And Personal Use Only