SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir चा.रा.भ. टी.कि.को. स. ९ कककककककककर कन्दरान् भेदान् ॥ १३ ॥ विचिन्वन्तु वनं सर्व इति, भवन्तः इति शेषः ॥ १४-२२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥१०॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥ पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥१४॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णी विचेरुदक्षिणां दिशम् ॥१५॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ १६ ॥ तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च । व्यचिन्वंस्ते हरिवराः सीतादर्शनकाक्षिणः ॥१७॥ तस्याग्रमाधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेही रामस्य महिषी प्रियाम् ॥ १८॥ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् । अवारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९ ॥ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थित्वा मुहूर्तं तत्राथ वृक्षमूल मुपाश्रिताः॥२०॥ ते मुहूर्त समाश्वस्ताः किञ्चिद्भग्रपरिश्रमाः। पुनरेवोद्यताः कृत्स्ना मार्गितुं दक्षिणां दिशम् ॥२१ ॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः । विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ २२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४९॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ १९ ॥ इत्यादि । तस्य तस्मादित्यर्थः ॥९-११॥ सदशमिति । अङ्गदः यद्वाक्यमुवाच तद्वाक्यं वो युष्माकं सदृशं खलु सम्मतं खल्विति सम्बन्धः ॥ १२ ॥ १३ ॥ यथो दिष्टानीति । विचिन्वन्तु, भवन्त इति शेषः ॥१४-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण० किष्किन्धाकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥४९॥ ॥१३५० For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy