SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नयपण्डितेत्यनन्तरमितिकरणं बोध्यम् । इत्यत्रवीदिति पूर्वेणान्वयः ॥ ७ ॥ ततः सुग्रीववचनात् हनूमति कार्यसमासङ्गं कार्यविषयासक्तिम् अवगम्य अस्मिन् सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । स्वयमपि हनुमन्तं कार्यसाधकं विदित्वा चिन्तयामास ॥ ८ ॥ चिन्ताप्रकारमाह--सर्वथेत्या दिना श्लोकद्वयेन । अन्ते इतिकरणं बोध्यम् । कार्यसाधने विषये निश्चितार्थः निश्चित कार्यसाधकः । हनुमानपि निश्चितार्थंकरः || ९ || तदेवमिति । अस्य त्वय्येव हनुमन् स्वस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥ ततः कार्यसमासङ्गमव गम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ८ ॥ सर्वथा निश्चितार्थोऽयं हनुमति हरीश्वरः । निश्चितार्थ करश्चापि हनुमान कार्यसाधने ॥ ९ ॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥ १० ॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ १२ ॥ Acharya Shri Kalassagarsuri Gyanmandir कार्यफलोदयः अस्य संबन्धिनी कार्यसिद्धिः । ध्रुवः निश्चितः १० ॥ व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम् । कृतार्थः संवृत्त इव, अमन्यतेति ७ शेषः || ११|| राजपुत्र्या अभिज्ञानम् अभिज्ञायतेऽनेनेत्यभिज्ञानम् । ननु त्यक्तसकलधनस्य वन्यवृत्त्या वर्तमानस्य कुतोऽङ्गुलीयकमिति चेत् इदमेकमेत त्कार्यार्थे रक्षितवान् । अत एवाङ्गुलीयमुन्मुच्येति नोक्तम् । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात् पूर्व प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्याखेहेन कनिष्ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । सेति । भूतं सत्त्वम् । तत्त्वमित्यत्र तदिति च्छेदः । तत् तथाशब्दायें। नयपण्डितेत्यत्रेतिकरणं द्रष्टव्यम् । तस्थाब्रवीचेति पूर्वेण सम्बन्धः ॥ ६ ॥ ७॥ अथ रामस्तुग्रीव वचनैर्हनुमतो न दुर्लभमस्तीत्यालोच्य समनन्तरकर्तव्यं चिन्तयति तत इति । ततः सुग्रीववचनात हनुमति कार्यसमासङ्गमवगम्य सुग्रीवेण हनुमति कार्यभारो निवेशित इति बुद्ध्वा हनुमन्तं स्वयमेव कार्यसाधकं विदित्वा च राघवचिन्तयामास ॥ ८ ॥ चिन्ता प्रकार माह- सर्वथेति श्लोकद्वयेन । कर्मभिः परिज्ञातस्य अस्य हनुमतः फलोदय इत्यत्र इतिकरणं द्रष्टव्यम् । एतस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥९॥१०॥ तं समीक्ष्येति । व्यवसायोत्तरमुद्योग प्रधानम् ॥११॥ अभिज्ञायते स०-हनुमान् निश्चितार्थतरः । इदं च " अत्यन्तमन्तरङ्गत्वात्प्रधानाङ्ग हि मारुतिः इत्युक्तेः प्रधानत्वायुक्तमिति भावः ॥ ९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy