________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| रोमोत्पन्नाः “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः ॥ ६०॥ अयम् उदयपर्वतपार्श्वस्थो द्वीपः सुदर्शनो नाम सुदर्शनसंज्ञाऽन्यर्थेत्याह यस्येति । यस्य तेजसः । पुरः सन्निधौ । सर्वप्राणभृतामपि चक्षुः प्रकाशते विपयग्रहणशक्तं भवति । तत्तेजः सूर्याख्यं यस्मिन् दीपे प्रकाशते अयं द्वीपः अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ६१ ॥ शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६२ ॥ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ ६३ ॥ पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च। सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ६४ ॥ तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६५ ॥ ततः परमगम्या स्याद्दिक पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरा वृता ॥ ६६ ॥ शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च । ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ६७ ॥ सुदर्शनो नामेति योजना ॥ ६१ ॥ शैलस्येति । शैलस्य उदयशैलस्येत्यर्थः ॥ ६२ ॥ ६३ ॥ पूर्वमिति । हि यस्मादेतदुदयपर्वतः । द्वारशब्दापेक्षया नपुंसकत्वम् । पृथिव्याः भुवनस्य च पूर्व द्वारं कृतं प्रथमद्वारत्वेन ब्रह्मणा सृष्ट्यादौ कल्पितम् । सूर्यस्य परितो भ्रमणाय प्रथमम् एतदुदयनं च कृत मुदयस्थानं कल्पितम् । तस्मादेषा पूर्वा दिगुच्यते ॥ ६४ ॥ तस्येत्यादि । सम्यगन्वेषणाय पुनरुक्तिः ॥ ६५ ॥ रामानु० - तस्य शैलस्य पृष्ठेष्विति पाठः ॥ ६५ ॥ त्रिदशावृता त्रिदशाधिष्ठिता । दिक् उदयाचलप्रदेशरूपा । ततः परम् उदयाद्रेः परम् अगम्या ॥ ६६ ॥ उपसंहरति-शैलेष्विति । ये मया नोक्तास्तेषु | दृश्यो भवतीत्यर्थः ॥ ५९ ॥ ६० ॥ अयमिति । अस्य तेजसः । पुरः सन्निधौ । अयं सुदर्शनो द्वीपः शोभनदर्शनोऽयं द्वीपः प्रकाशते । अयमिति शृङ्गमाहिकया निर्देशात जम्बूद्वीप उच्यते । यद्वा सुदर्शनाकारत्वात्सुदर्शन शब्देन जम्बूद्वीप उच्यते । सर्वप्राणभृतां चक्षुश्च यस्य तेजसः पुरः प्रकाशते तस्य शैलस्य कुञ्जेषु कन्दरेषु च वैदेह्या सह रावणो मार्गितव्य इति सम्बन्धः ॥ ६१-६३ ॥ पूर्वदिशो निर्वाचनमाह पूर्वमेतदिति । हि यस्मात्कारणात् पृथिव्या भुवनस्य च पूर्वद्वारं कृतं प्रथमद्वारं ब्रह्मणा सृष्ट्यादौ कल्पितम् । सूर्यस्य परितो भ्रमणाय प्रथमे तदुदयनं च कृतम् उदयस्थानं कल्पितम् । तस्मादेषा पूर्वा दिमित्युच्यते ॥ ६५॥६५॥ तत इति । त्रिदशावृता इन्द्रादिदेवावृता । ततः परम् उदयाद्रेः परम् अगम्येति सम्बन्धः ॥ ६६ ॥ उक्तेध्वमुक्तप्रदेशाः ॥ ६७ ॥
For Private And Personal Use Only