SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥११४॥ www.kobatirth.org वासिनः ॥ २ ॥ ३ ॥ ख्यातकमपदानाः, कर्म दूरलङ्घनादिक्रिया, अपदानं पूर्ववृत्तं विस्मयनीय शत्रुनिरसनं ख्याते कर्मापदाने येषां ते तथा। कोटय टी.कि.कां. यश इति बहुसंख्योपलक्षणम् ॥ ४ ॥ ५ ॥ गुरुहिते स्वामिहिते ॥ ६ ॥ त इति । बहुसाहस्रैर्भाभिविक्रमे नीकैः सहिताः । त इम इत्यङ्गुल्या निर्देशः । स० ४० त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ३ ॥ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । अभिप्रेतमनुष्ठा शक्ष्यन्त्यरिन्दम ॥६॥ त इमे बहुसाहस्रैरनीकै भीमविक्रमैः । यन्मन्यसे नरव्यात्र प्राप्तकालं तदुच्यताम् । त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ७ ॥ काममेषामिदं कार्यं विदितं मम तत्त्वतः । तथापि तु यथातत्त्वमाज्ञापयितु मसि ॥ ८ ॥ इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥ ज्ञायतां मम वैदेही यदि जीवति वा न वा । स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ १० ॥ अभिगम्य तु वैदेहीं निलयं रावणस्य च । प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ ११ ॥ नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः । त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १२ ॥ | प्राप्तकालं कालोचितम् ॥ ७ ॥ एषां कार्यम् एभिः कर्तव्यम् । मम विदितं मया विदितम् ॥ ८-१३ ॥ Acharya Shri Kailassagarsun Gyanmandir | देशवासिनः । यद्वा मद्राज्यवासिनः ॥ २ ॥ ३ ॥ ख्यानकर्मापदानाः अत्र कर्मशब्दः अतिदूरलङ्घन क्रियावाची अपदानशब्दः पूर्ववृत्तादिविस्मयनीयवीर्य शत्रुनिरसनरूपक्रियावाची । कोटयग्रश इत्येतद्वहुसङ्ख्योपलक्षणम् ॥ ४ ॥ ५ ॥ निदेशेति । गुरुहिने स्वामिहिने । अभिप्रेतमभिलषितं कार्यम् ॥ ६ ॥ प्राप्तकालं कालोचितम् ॥ ७ ॥ काममिति । एषां कार्यम् एभिः कर्तव्यं मम मया विदितम्, तथापि त्वमाज्ञापवितुमर्हसि भवतः सर्वस्वामित्वादिति भावः ॥ ८-११ ॥ नाह स०-रावणनिवास उपलब्पश्वेतत्र किं कार्यम, किं रावणो हन्तव्यः उतेहानेतव्यः १ इत्यत आह-अधिगम्येति । अधिगम्य विज्ञाप । अनन्तरं तत्कालोचितं विधास्यामि ॥ ११ ॥ For Private And Personal Use Only ॥ ११४ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy