________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
टी.कि.कां. स०३७
११०९॥
द्योतनार्थम् ॥१३॥ रामानु०-आनेतृबहुसंख्याभिधानमानेतव्यानामसंख्यातत्वं लक्ष्मणाय द्योतयितु ॥ १३ ॥ १४॥ त इति । गम्यत इति गतिः वासस्थानम् । पृथिव्यां सर्वान् हरीन् आनयन्तु इति संबन्धः॥ १५ ॥ १६ ॥ ते पदमिति । पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः सन्तः । विष्णुविक्रान्तं
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन सर्वास्त्वरिताः शासनान्मम ॥ १५॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः । दिक्षु सर्वासु विक्रान्तान प्रेषयामास वानरान् ॥१६॥ ते पदं विष्णुविक्रान्तं पतित्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै॥१७॥ ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानरा वानरान् सर्वान रामहेतोरचोदयन् ॥ १८॥ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः । तिस्रः कोटयः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥२०॥
अस्तं गच्छति यत्रार्कस्तस्मिन गिरिवरे स्थिताः । तप्तहेममहाभासस्तस्मात्कोटयो दश च्युताः ॥२१॥ कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥ फलमूलेन जीवन्तो हिमवन्त मुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥२३॥ अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद वानरकोटीनां सहस्राण्यपतन द्रुतम् ॥२४॥ पदम् आकाशं प्रयाताः॥ १७-१९॥ रामानु -मुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः इति पाठः ॥ ११ ॥ तत इति । यत्र येन हेतुना राघवो वर्तते ततः चिरक्रियाः । उद्योग कुर्वाणा इव कालयापका इत्यर्थः ॥ ११-१४ ॥ ते इति । गति गम्यत इति गतिः निलयं, पृथिव्या सर्वान हरीनानयन्विति सम्बन्ध ॥ १५ ॥ १६ ॥ हरयः पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः । विष्णुविक्रान्तं पदमाकाशम् तत्क्षणेन प्रयाता इति सम्बन्धः ॥ १७ ॥ १८॥ अथ दूतमुखेन । सुग्रीवाजाश्रवणानन्तरं सर्वेपि कपयस्तमागता इत्याह-मृत्युकालेति । मृत्युकालोपमस्य प्रलयकालतुल्यस्य ॥ १९ ॥ येन हेतुना राघवो वर्तते तस्माद्धेतोः
For Private And Personal Use Only