________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अतीवायुक्तं तव भर्तुर्विषयप्रावण्यमित्याह-किमयमित्यादिना । युक्ते सक्ते ! इति संबुद्धिः । अयं कामवृत्त इति एनं नावबुध्यसे किमिति संबन्धः ॥४२॥ न चिन्तयतीति । राज्यार्थ राज्यरूपप्रयोजनम् ॥ १३ ॥ प्रमाणं मर्यादाम् ॥ १४ ॥ धर्मार्थसिद्धयर्थम्, यतमानस्यति शेषः ॥४५॥ धर्मेति । कृते उपकारविषये अप्रतिकुर्वतः महान् धर्मलोपो भवेत् । प्रत्युपकाराकरणाद्गुणवतो मित्रस्य नाशे सति महानर्थलोपो भवेत् । चकारात किमयं कामवतस्ते लुप्तधर्मार्थसंग्रहः । भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे ॥ ४२ ॥ न चिन्तयति राज्यार्थ नास्मान् शोकपरायणान् । सामात्यपरिषत्तारे पानमेवोपसेवते ॥४३॥ स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः। व्यतीतांस्तान्भव्यग्रो विहरन्नावबुध्यते ॥४४॥ नहि धर्मार्थसिद्धयर्थ पानमेवं प्रशस्यते । पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥४५॥ धर्मलोपोमहांस्तावत्कृते ह्यप्रतिकुर्वतः । अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥४६॥ मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् । तवयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥४७॥ तदेवं प्रस्तुते
कार्ये कार्यमस्माभिरुत्तरम् । यत्कार्य कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥४८॥ कामलोपश्च ॥ १६ ॥ उक्तमर्थमुपपादयति-मित्रं हीति । सत्यधर्मपरायणं मित्रम् अर्थगुणश्रेष्ठं हि । अत्र गुणशब्दः कामवाची । अर्थकामयो मूलत्वान्मित्रं ताभ्यां श्रेष्ठं हि । तादृशं मित्रं त्यजता सुग्रीवेण तवयम् अर्थकामद्वयम् । परित्यक्तं तु परित्यक्तमेव । धर्मे तु न व्यवस्थितम्, धोपि3 परित्यक्त इत्यर्थः ॥४७॥ तदिति । तत्तस्मात् । कार्यतत्त्वज्ञे ! कार्य, धर्मार्थकामविलोपहेतुभूते मित्रपरित्यागलक्षणे कार्य एवं प्रस्तुते सति यदुत्तरं कार्य अयं कामवृत्त इति एनं नावबुद्धधसे किमिति सम्बन्धः । भर्तृहिते युक्ते ! इति सम्बोधनम् ॥ ४२ ॥ राज्यार्थ राज्यप्रयोजनम् ॥ ४३-४५ ॥ 'पानादर्थश्च' इत्यादिनो कमुपपादयति-धर्मलोप इत्यादिना । कृते उपकारविषये । अप्रतिकुर्वतः प्रत्युपकारमकुर्वतः । महान धर्मलोपो भवेत् चकारात्कामलोपश्च ॥ ४६॥ उक्तमेवार्थ विशदयात-मित्र हीति । सत्यधर्मपरायण मित्रम् अर्थगुणश्रेष्ठम्, अत्र गुणशब्द: कामवाची, अर्थकामाभ्यो श्रेष्ठ हि । तारशं मित्रं त्यजता सुप्रीवेण तदद्वयम अर्थकामद्वयन्तु परित्यक्तमेव । धर्मे तु न म्यवस्थितं धर्मोपि परित्यक्त इत्यर्थः ॥ १७ ॥ तत् तस्मात् । हे कार्यतत्त्वज्ञे ! कार्ये धर्मार्थकामविलोपहेतुभूते| मित्रपरित्यागलक्षणे कार्य एवं प्रस्तुते सति यदुत्तरं कार्यमस्माभिः कार्य कर्तव्यम् तदुदाहर्तुमर्हसीति योजना ॥ ४ ॥
For Private And Personal Use Only