________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥९७॥
स० ३१
वा.रा.भू. तं दृट्वेत्यादि । वानराः पूर्वोक्ता बहिश्वराः॥ १८॥ रामानु० - किष्किन्धाया बहिश्वरानित्यतः परम् तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभमित्यर्थं द्रष्टव्यम् ॥ १८॥ ॥ १९-२६ ॥ ॐ टी.कि.कां. ततस्त इति । प्राकारपरिषान्तरान्निष्कम्य आविष्कृतं प्रकाशं यथा भवति तथा तस्थुः ॥ २७ ॥ सुग्रीवस्येति । आर्ते कामपीडितम् ॥ २८ ॥ ७ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥ तान् गृहीतप्रहरणान हरीन् दृष्ट्वा तु लक्ष्मणः । बभूत द्विगुणं क्रुद्धो बह्निन्धन इवानलः ॥ १९ ॥ तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः । कालमृत्युयुगान्ताभं शतशी विद्वता दिशः ॥ २० ॥ ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः । क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥ तारया सहितः कामी सक्तः कपिवृषो रहः । न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥ ततः सचिवसंदिष्टा हरयो रोमहर्षणाः । गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥ नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः । सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभ्रुवुस्तुल्यविक्रमाः ॥ २५ ॥ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः । अपश्यलक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥ २६ ॥ ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् । निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ २७ ॥ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् । बुद्धवा कोपवशं वीरः पुनरेव जगाम सः ॥ २८ ॥ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः । बभूव नरशार्दूलः सधूम इव पावकः ॥ २९ ॥
रामानु०- पूर्वजं चार्तमात्मवानिति सम्यक् ॥ २८ ॥ ॥ २९ ॥
तत इति । प्राकारपरिघान्तरात निष्क्रम्य आविष्कृतं प्रकटं यथा तथा तस्थुः ॥ टी० प्राकारपरिचान्तरात् प्राकारपरिचामध्यवर्तिमार्गात् ॥ २७-२९ ॥ स०-सचिवैः सुग्रीत्रामायैः सन्दिष्टाः भीषणमित्याज्ञप्ताः ॥ २३॥ विवृतदर्शनाः प्रकटीभूता इत्यर्थः ॥ २४ ॥ दशगुणोत्तराः शतनागबलाः । नागसहस्रस्यवर्चसः सहस्र गजलाभिव्यञ्जकवचविशेषवन्त इत्यर्थः ॥ २५॥
For Private And Personal Use Only
॥९७॥