________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ.
॥९२॥
रामानु:-क्रीडन्ति हंसाः सह चक्रवाकरिति । ईसचक्रवाकाः परस्परं वैरिणोपि शरदसणसातहर्षपास्वश्यात् वैरै विस्मृत्य विहरन्ति इति न विरोधः ।। ३२॥३३॥ नभ इति । गतोत्सवाः
टी.कि.को नष्टहर्षा इत्यर्थः । बभूवुरिति शेषः ॥ ३४ ॥ मनोज्ञगन्धैरिति । प्रियके बन्धूकैः । “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः " इत्यमरः ॥ ३५॥
स०३. प्रियान्वितामामिति । कुसुमोद्धतानां सप्तच्छदकुसुमाघ्राणेन मत्तानाम् । मदोत्कटानां मदेन उद्भिन्नकटानाम् ॥ ३६ ॥ व्यभ्रं विगतमेघम् । शस्त्र।
मदप्रगर्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ॥३३॥ नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु । प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ ३४ ॥ मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनतानशाखैः । सुवर्णगौरैर्नयनाभिरामैरुदद्योतितानीव वनान्तराणि ॥ ३५ ॥ प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् । मदोत्कटानां मदलालसानां गजोत्तमानांगतयोऽद्य मन्दाः ॥ ३६ ॥ व्यभ्रं नमः शस्त्रविधीतवर्ण कृशप्रवाहानि नदीजलानि । कहारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ ३७॥ सूर्यातपक्रामणनष्टपका भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवैरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ ३८ ॥ विधीतवर्ण विधौतशस्त्रवर्णम् । कृशप्रवाहानि सङ्कचितप्रवाहानि ॥ ३७॥ सूर्यातपेति । चिरोद्घाटितसान्द्ररेणुः चिरात् ईषत् उत्पादितनिबिडरेणुः ।। स्थूलरेणुरित्यर्थः । अन्योन्यवरामर्षायुतानामित्यत्र वृत्तभङ्ग आपः । वैरं विरोधः, अमर्षः असहिष्णुता ताभ्याम् भायुतानाम् आ समन्ताद्युतानाम् । वैरामर्षपूर्णानामित्यर्थः ॥ ३८॥ रामानु०-सूर्यातपेति । समुत्पादितसान्द्ररेणुरिति पाठः । अन्योन्यवरामपायुतानामित्वत्र वृत्तभङ्गः आर्षः । वैरै विरोधः, अमर्षः असहिष्णुता ताभ्यामायुतानाम् आ समन्ताधुक्तानाम् । वैरामर्षपूर्णानामित्यर्थः ॥ ३८ ॥ मनोज्ञेति । प्रियकैः सर्जकेः ॥ ३५ ॥ कुसुमोडताना सप्तच्छदासुमाघ्राणेन मत्तानां मदोत्कटाना मदेनोद्भिनकटानाम् ॥३५॥ व्यनमिति । शस्त्रविधीतवर्ण धोतशत्रवर्णम् ॥ ३७ ॥ सूर्यस्येति । "समुत्सादितसान्द्ररेणुः" इति पाठः । टी-अन्योन्येति । भन्न तमनपरिहाराय अमक्षेति रेफस्योकारः पठनीयः ॥ ३८॥
॥९
॥
For Private And Personal Use Only