________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू
॥९॥
टी.कि.का.
युक्तिभिरविचाल्यम् । स्वभावज स्वभाषसिद्धम् । हितम् उदर्कसुखकरम् । पथ्यं तत्कालसुखकरम् । नयप्रसक्तं राजनीतियुक्तम् ससाम सान्त्वयुक्तं धर्मार्थ सहितं च वाक्यमुक्तवन्तं सलक्षणं लक्ष्मणमुवाचेति योजना। यद्वा अप्रधृष्यत्वादिविशेषणविशिष्टं वाक्यं राम उवाच । लक्ष्मणोक्तानुवादरूपत्वाद्रामवाक्य स्यापि तथात्वमिति बोध्यम् ॥१९॥रामा-एतच्छाकोक्ताप्रधृष्यत्वादिधर्माणां पूर्वोक्तलक्ष्मणवाक्पेषु विद्यमानत्वादुपरिष्टाद्रामेण लक्ष्मणोक्तस्यास्पैव अन्यमानत्वादुक्तवन्तमिति पदमध्याहर्तव्यम् ॥ १९ ॥ निःसंशयमिति । कार्य सीतान्वेषणादिकम् । निःसंशयं यथा भवति तथा अवेक्षणीयम्, तदनुरूपंधेर्य कर्तव्यमित्यर्थः। क्रियाविशेषः
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः । ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम् ॥ २० ॥अथ पद्मपलाशाक्षी मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥ स्निग्धगम्भीर निर्घोषाः शैलद्रुमपुरोगमाः। विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ २३ ॥ नीलोत्पलदलश्यामाः श्यामी कृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥२४॥ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५॥ उत्साहादिः । अनुवर्तितव्यः अनुवर्तितव्य एव । हे कुमार! प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपम् । न चिन्त्यं ननु ? चिन्त्यमेव ॥२०॥ एवं लक्ष्मणसमाश्वासनेन प्रतिष्ठापितधेयोपि सीताविषयककामानुवृत्त्या पुनः शरदं वर्णयति-अयेत्यादिना ॥ २१ ॥ तर्पयित्वेति । निर्वर्तयित्वा परित पक्कानि कृत्वा । कृतकमा कृतकृत्यः॥२२॥ स्निग्धेति । शैलद्रुमपुरोगमाः शैलद्रुमाणामग्रे गच्छन्तः। अत्र प्रकरणे सर्वत्र विषये प्रवृत्तिः रामावतारकृता एच्यते ॥ २३ ॥२४ ॥ जलगर्भा इति । वृष्टिकरा वाता वृष्टिवाताः, पुरोवाता इत्यर्थः ॥ २५ ॥२६॥ मुखकरम । नयप्रसक्तं राजनीतियुक्तम् । ससाम सामवादसहितम् । धर्मार्थसहितं च वाक्यमुक्तवन्तं लक्ष्मा सलक्षणमुवाचेत्यन्वयः ॥ १९ ॥ निस्संशयमिति
कुमार ! प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपं न चिन्त्यमिति न, किन्तु चिन्त्यमेव । क्रियाविशेष: उत्साहादिः । सोपि अनुवर्तितव्यो हि अनु। वर्तितव्य एष । कार्य सीतान्वेषणादि । निस्संशयमवेक्षणीयम्, निस्संशयं यथा तथा कर्तव्यमित्यर्थः ॥ २० ॥ २१ ॥ टी०- उक्त मेवाह-तर्पवित्वेति । निर्वसयित्वा निष्पाद्य । परिश्रान्ता उपरता ॥ २२ ॥ २६ ॥ नीति । शामी कला, स्वसम्बन्धेनेत्यर्थः । श्यामीति भिलादम्, अन्यथा स्यबादेशः स्यात् ।। २४-२८ ।।
॥२१॥
For Private And Personal Use Only