SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सन् वैदेहीसमानयनाय त्वरमाणोपि सन् न निवेदयतीति संबन्धः ||१७|| कुलस्येति । स्वयं चेति, त्वमपि गुणैरप्रतिम इत्यर्थः ॥ १८ ॥ तस्येति । आज्ञा पयितुम्, वानरसेनामानेतुमिति शेषः ॥ १९ ॥ इदानीं वानरानयनेपि कालव्यतिक्रमस्तुल्य इत्याशङ्कयाह-नहीति । चोदनादृते रामप्रेरणं विना । कालो न व्यतीतो भवेत्, रामचोदनानन्तरं कार्य कियते चेत्तदा कालातिक्रमः, तच्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष इति भावः ॥ २० ॥ कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः । अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १८ ॥ तस्य त्वं कुरु वै कार्य पूर्वं तेन कृतं तव। हरीश्वर हरि श्रेष्ठानाज्ञापयितुमर्हसि ॥ १९ ॥ न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते । चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ २० ॥ अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर । किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ २१ ॥ शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर । कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ॥ २२ ॥ कामं खलु शरैः शक्तः सुरासुर महोरगान् । वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २३ ॥ प्राण त्यागाविशङ्केन कृतं तेन तव प्रियम् । तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २४ ॥ १३५ Acharya Shri Kailassagarsun Gyanmandir अकर्तुः अनुपकर्तुः ॥ २१ ॥ शक्तिमानपीति । प्रीतिं कर्तुम् । आज्ञायाम् आज्ञापने । न सज्जसे नोद्योगं करोषि ॥ २२ ॥ २३ ॥ प्राणत्यागेति । प्रेरितैरस्माभिः किमर्थे कर्तव्यम् ? कर्तव्यं चेदपि केन प्रकारेण कर्तव्यमत आह-त्वरमाण इत्यादिश्लोकद्वयेन । अप्रमेयस्वभावः कुलस्य बन्धुः स्वयं गुणैरप्रतिमश्च रामः त्वरमाणोपि तव वशानुगः, अतस्त्वां न प्रेरयतीति शेषः ॥ टी०-अनिवेदनेपि त्वन्निमित्तानुसरणं स्वसामर्थ्यं च कारणमित्यभिप्रायेणाह वरमाण इत्यादि, लोकतयमेकं वाक्यम् ॥ १७ ॥ १८ ॥ तस्येति । किख तेन पूर्व तब कार्य कृतम्, तस्य कार्य कुरु कर्तव्यप्रकारमाह हरीश्वरेति ॥ १९ ॥ इदानीं वानरप्रेषणेपि कालात्ययदोषस्तदवस्थ एवेत्याशङ्कय नेत्याह-नहीति । चोदिनस्य कार्यस्य हि कालव्यतिक्रमो भवेत, कालात्यये सत्यपि चोदनानन्तरं कृतस्य कार्यस्य कालात्ययदोषो भवेदित्यर्थः । चोदनाहते आज्ञां विना क्रियमाणस्य कार्यस्य कालस्तावय नीतो न भवेत् कालातिक्रमदोषो न भवेदेव, अतो रामनियोगात्पूर्वमेव सीतान्वेषणार्थं वानरानयनो द्योगः कर्तव्य इति भावः ॥ २० ॥ अकर्तुरपि अनुपकर्तुरपि । कार्यस्य कर्ता । राज्येन धनेन च प्रतिकर्तुः ॥ १ ॥ शक्तिमानिति । आज्ञायां किन सजसे किमर्थं विलम्बसे ॥ २२ ॥ टी०. अनुयोगे का भीतिरित्यत आह- काममिति । तथापि मर्यादां पालयतीत्याह त्यतिहामिति ॥ २३ ॥ किं तं तेनेत्यत आह-प्राणत्यागेति । प्राणत्यागाविशङ्केन महाबलिना वालिना विरोधे स्वानिष्टशङ्कापरित्यागेनेति भावः ॥ २४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy