________________
Shri Mahavir Jan Aadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
%94%
पुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा। "तीवकान्तनिता न्तानि" इत्यमरः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थ प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान राज्यप्राप्त्यनन्तरमेवं करिष्यामीति संकल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति संबन्धः । कृतार्थ निष्पन्नधनम् । मन्त्रिणामनवेशक मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देश नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतयाऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अब हेतुः-अर्थ
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता। मित्राणां संग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ ९॥ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते । तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥१०॥
यस्थ कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समवेतानि सवाणि स राज्यं महदश्नुते ॥११॥ तत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तविशेषवित् । वाक्यवित् तदुचितव्याहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गा दनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयोहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ॥ १-८॥राज्यमिति । कोली कुलकमागता । श्रीः सम्पत् । अभिवार्धता, अप्रतिद्वन्द्वत्वादिति भावः । मित्राणां संग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाध वाक्ये रित्यादिना पूर्व प्रशंसितम् ॥ ९॥ मित्रकार्यस्यावश्यकर्तव्यत्वमाह-यो हीति । कालज्ञः मित्रसंग्रहकालज्ञः । तत्कालातिकम विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ॥ १०॥ यस्येति । दण्ड्यतेऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एक न्यूनत्वे महाराज्यहानिरिति भावः ॥ ११॥रामातु-दण्डः दण्डवतेऽनेनेति दण्डः सैन्यविशेषः । तबाह कामन्दक:-"पिनुपतामहो वंशसम्भवो दत्तवेतनः। विरूपातपौरुषो जन्ये धर्मार्थनीतिश्च सामधर्मार्थनीति तदस्यास्तीति तथा । विश्वासकृतनिश्चयम् आतवाक्यत्वविश्वासेन कृतनिश्चयम् ॥ ८॥९॥ यो हीनि । कालज्ञः प्रत्युपकार
कालज्ञस्सन मित्रेषु स्वोपकर्तृप्विति शेषः । यः साधु यथा तथा वर्तते । टी -नित्रसङ्महत्यावश्यकत्वमन्वयव्यतिरेकाम्यामाह-यो हीति ॥१०॥ यस्येति । दण्डः दण्डवतेऽनेनेति पदण्डः, सैन्यविशेषः । तथाह कामन्दक:-" अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदा मतः" इति । समवेतानि अन्योन्यमनुकूलानि ॥११॥
6
For Private And Personal Use Only