SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भद्रासनयुतां राजासनयुक्ताम् । (राजाहाँनतासनयुक्तामिति रामानुजार्यः) पक्षिकर्मभिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभ्रताम् । क्रियत इति कर्म प्रतिकृतिः । द्रुमकर्मभिः द्रुमप्रतिकृतिभिः विभूषिताम् । आचितां चित्रपाभिः चित्रलेखाभिः । पदातिभिरित्येके । आर्षों दीर्षः । सुनिविष्टांत शोभनसन्निवेशवतीम् । जालवातायनावृतां सूक्ष्मरन्ध्रसमूहो जालम्, गोनयनाकृतिरन्ध्रसमूहो गवाक्षम्, तदावृताम् । सुनियुक्तां सुश्लिष्टां सुकृतां सुट | पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् । आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ॥ २३ ॥ विमानमिव सिद्धानां जालवातायनावृताम् । सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ॥ २४ ॥ दारुपर्वतकोपेतां चारुकर्म परिष्कृताम् । वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥२५॥ गुहागहनसंछन्ना रक्तचन्दनरूषिताम् । पुष्पौधैः समभिच्छन्नां पद्ममालाभिरेव च । तरुणादित्यवर्णाभिजमानाभिरावृताम् ॥ २६ ॥ ईदृशी शिबिकां दृष्ट्वा रामो 0 लक्ष्मणमब्रवीत् । क्षिप्रं विनीयतां वाली प्रेतकार्य विधीयताम् ॥२७॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा । । आरोपयत विक्रोशनङ्गदेन सहैव तु ॥२८॥ कृताम्, यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिमितक्रीडापर्वतयुक्ताम् । चारुकर्मणा उत्तेजनेन परिष्कृताम् अलंकृताम् । वराभरणेः हारैश्च, युक्तामिति शेषः । गुहागहनसंछनां कृत्रिमैर्गुहागहनैः गुहाभिः काननैश्च संछत्राम् । पुष्पौषैः मुक्तकपुष्पनिचयैः आस्तरणार्थः। समभिच्छन्ना व्याप्ताम् । पद्मति, चतुर्दिा पुष्पसरोपेतत्वेष्यन्तरान्तरा पद्ममालाभिः पद्मपतिभिर्युक्तामित्यर्थः ॥२२-२६॥ ईदृशी शिबिकामिति । पुनरुक्तिव्यवाहिता नुस्मरणार्था ॥२७॥ रामा-क्षिप्रं प्रेतकार्य विधीयतामिति लक्ष्मणोद्देशेनोक्तार्थस्प सुग्रीवेग क्रियमाणत्वालक्ष्मणेन सुग्रीवोप्याज्ञान इत्यवगम्यते ॥२॥ तत इति । ततः लक्ष्मण राजासनयुक्ताम् । पक्षिकर्मभिराचित्रां पक्षिप्रकृतिकर्मभिः आ समन्तात् चित्राम् । दुमकर्मविभूषितां दुमप्रकृतिभिः कर्मभिभूषिताम् । चित्रपत्तीभिः चित्ररचना विशेषेर्वा । चित्रपङ्कीभिरिति वा पाठः । सुनिविष्टां शोभनसनिवेशाम् । जालवातायनान्विता जालैर्वातायनेश्च अन्विताम् । कुढचोपरि तिर्यगवस्थितफलकनिर्मित विविधसनिवेशरन्याणि जालानि । वातायनानि वायुप्रवेशार्थगवाक्षाकाररन्ध्राणि । सुनियुक्तां सुश्लिष्टाम् ॥२२-२४ ॥ दारुपर्वतकोपेनां दारूनिर्मितक्रीडापर्वत | युक्ताम् । वराभरणहारैश्च, युक्तामिति शेषः ॥ २५ ॥ मुहागहनसञ्छन्ना क्रीडार्य निर्मितदुष्प्रवेशगुहाकारावरणनिविडाम ॥ २६-२९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy