SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie मीश्वरः। आत्मनो जीवस्य । न वशः न परतन्त्रः । तत्तत्कर्मानुगुणमेव ईश्वरः सर्व वर्तयतीत्यर्थः ॥७॥ तमुनीशेन जन्तुना किं कर्तव्यं तत्राइ- किश विति । साधु सम्यक् । पश्यता शास्त्रनिष्कर्षमवगच्छतेत्यर्थः । कालस्य ईश्वरस्य । परीणामः चेतनकर्मानुगुणप्रवृत्तिविशेषो द्रष्टव्यः, ईश्वरकृत । व्यापारेषु न शोकः कर्तव्यः, यदितं तत्करिष्यतीति स्थातव्यमिति भावः। धर्मार्थकामास्तु कालकमेण ईश्वरमर्यादया समाहिताः समर्पिता भवन्ति । किंतु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥८॥ इतः स्वां प्रकृति वाली गतः प्राप्तः क्रियाफलम् । धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ॥ ९॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना । स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ १०॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः । तदलं परितापेन प्राप्तकालमुपास्यताम् ॥११॥ धर्मादिषु यत् प्राप्तव्यं तत् प्रापयतीश्वर एवेति भावः । अत्र नियतिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानी रहस्यस्य वकुमनईत्वादिति बोध्यम् ॥८॥ एवमर्थस्थितिमुक्त्वा तां प्रकृते सङ्गमयति-इत इति । स्वां प्रकृतिं गतः माणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् । पूवगेश्वरो वाली। इतः अस्माल्लोकात् । धर्मार्थकामसंयोगैः विहितकालानुष्ठितधर्मार्थकामसंबन्धैः । पवित्रं कियाफलं स्वर्ग प्राप्तः । सामदानार्थसंयोगेरिति । पाठे नीतिशास्त्रानुष्ठानेरित्यर्थः ॥९॥ केन स्वां प्रकृति प्राप्त इत्यपेक्षायामुक्तं विशदयति-स्वधर्मस्य चेति । स्वधर्मस्य संयोगात्स्वविहितधर्मानुष्ठानात्।। रणे प्राणानपरिरक्षतेत्यनेन शौर्यकृतधर्मोप्युक्तः । उभाभ्यां जितः पूर्व स्ववशीकृतः स्वर्गः इदानीं परिगृहीतश्च ॥ १०॥ एषेति । हरियूथपः वाली। सर्वकारणभूतः कालः । आत्मनः पुरुषस्य वशो न भवति पुरुषाधीनो न भवति ॥ ७॥ किं तहत्यित आह-किंत्विति । साधु पश्यता श्रेयः पश्यता । स्वात्म हितं पश्यता, विवेकिनेत्यर्थः । सर्वोपि लोकव्यवहारः कालपरीणामो द्रष्टव्यः । स्वापेक्षितहेतुभूतः कालपरिणामः प्रेक्षणीयः । मेक्षणीयत्वे हेतुमाह धर्मश्चेति । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः पूर्वाहमध्याह्वापराहकालक्रमायत्ताः, यस्मिन्काले यत्कर्म कर्तव्यं स कालोऽनुल्लकनीय इति भावः ॥८॥ इत इति । स्वात प्रकृतिं गतः मद्वाणकृतवधेन कृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सः पवगेश्वरो वाली । इतः अस्माल्लोकात् । धर्मार्थकामसंयोगः विहितकालानुष्ठित धर्मार्थकामसम्बन्धैः । पवित्रं क्रियाफलं स्वर्ग प्राप्त इति योजना ॥९॥ स्वधर्मस्य चेति । स्वधर्मसंयोगात स्वविहितकर्मानुष्ठानात् स्वर्गो जितः पूर्व स्वपशी कृतः, इदानीं युद्धे प्राणानपरिरक्षता परिगृहीतश्चेति सम्बन्धः ॥ १०॥ नियतिः मृतिः प्राप्तकालम् एतत्कालोचितम् ॥ ११-१२ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy