________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कार कारयति पञ्चविंशे-सुग्रीवमित्यादि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभि । स्तुल्यशोकः॥१॥ नेति । शोकपरितापेन शोककृतपरितापेन । युष्मदीयेनेति शेषः। मृतो वाली श्रेयसा न युज्यते । अत्र वालिनि विषये अनन्तरं ।। मरणानन्तरम् । यत् श्रेयस्करं कार्यम् ओज़देहिकरूपम्, तत्समाधातुं कर्तुम् अर्हथ ॥२॥ लोकेति । लोकवृत्तं लोकाचारसिद्धम् । अत एव सर्वैरनु
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ १ ॥न शोकपरि तापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्य तत्समाधातुमर्हथ ॥२॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् । न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥ नियतिः कारणं लोके नियतिः कर्मसाधनम् । नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥१॥ न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः । स्वभावे वर्तते
लोकस्तस्य कालः परायणम् ॥५॥ Hठेयं बाष्पमोक्षणम् । वः युष्माभिः कृतम् । बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं शक्यामित्याह-कालादिति । कालादुत्तरम् कालं विनेत्यर्थः। पाकिंचित्कर्म । उपासितुं कर्तुम् । न शक्यं देवाज्ञामुल्य स्वातन्त्र्येण किंचिदपि कर्म कर्तुं न शक्यमित्यर्थः॥३॥ रामानु-कालादिहितात् कालात् । उत्तरम् उत्तरस्मिन् काले "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया ॥ ३॥ तदेतदुपपादयति-नियतिरिति । नियम्यतेऽनेनेति नियतिः ईश्वरः । लोके विषये कारणम् । सर्वलोककर्तेत्यर्थः । क्रियत इति कर्म कार्यम्, तस्य साधनं सहकारीत्यर्थः । सर्वभूतानाम् नियोगेषु प्रेरणेषु । नियतिः कारणम्, सर्व प्रवर्तकोपीश्वर इत्यर्थः। तेन विना तृणायमपि न चलति' इति न्यायात् ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वातन्त्र्येणेत्यर्थः ॥४॥ एव । शमन्वयमुखेन ईश्वराधीनत्वमुक्त्वा व्यतिरेकमुखेन दर्शयति-न कर्तेति । कश्चित्पुरुषः कस्यचित्कर्मणः। न कर्ता न स्वातन्त्र्येण कर्ता । नियोगे कस्य ।
॥१॥२॥ लोकवृत्तमिति । बाष्यमोक्षणं कृतम् अलम् , लोकवृत्तं पारलौकिक कर्मानुष्ठेयम् ,कालाद्विहितात कालादुत्तरम उत्तरस्मिन् काले । किश्चित्कर्म किमपि कर्म । उपासितुम् अनुष्ठातुम् । न शक्यम्, कालस्यानुपादेयत्वादिति भावः ॥ ३॥ कालस्य प्राधान्यमेवोपपादयति-नियतिरित्यादिना । नियम्यते अनयोति व्युत्पत्या नियतिः कालः । नियोगेनु नियमनेषु ॥ ४ ॥ न कर्तेति । कस्यचिदपि कश्चिन्न कर्ता । नियोगे च नियमने च कश्चिदपि ईश्वरः स्वतन्त्रो न भवति, किन्तु लोकः ।
For Private And Personal Use Only