________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०१९
पा.रा.भ. उक्तमर्थ सर्गान्ते श्लोकाभ्यां पुनः संगृह्णाति-स तस्येति । समाहितं समाधानरूपम् ॥ ६८॥ शरेति । प्रदूषित इति यत् इदं मे अपचरितम् । क्षमी .क.को ॥५७॥ क्षमस्व । अस्मिन् सर्गे सार्थसप्तपष्टिश्लोकाः ॥६९॥ इति श्रीगोविन्द श्रीरामा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः। निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥ ६८॥ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो । इदं महेन्द्रोपम भीमविक्रम प्रसा दितस्त्वंक्षम मे नरेश्वर ॥६९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः॥१८॥
स वानरमहाराजः शयानः शरविक्षतः। प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥१॥ अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥२॥ तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥३॥ सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं त्रस्ता विविधाद्विरिगह्वरात् ॥ ४॥ ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः । तेसकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥५॥ सा ददर्श ततस्त्रस्तान हरीनापततो भृशम् । यूथादिव परिभ्रष्टान मृगानिहतयूथपान् ॥६॥ तानुवाच समासाद्य दुःखितान् दुःखिता सती।रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः॥ ७॥ तारागमनमेकोनविंशे-स वानरमहाराज इत्यादि । विक्षतः विशेषेण क्षतः । जीवितान्ते जीवितान्तकाले ॥१-३॥ सा सपुत्राप्रियमिति । अप्रियमिति च्छेदः । विविधानानाकक्ष्यात गिरिगह्वरागिरिगुहातः । गुहारूपा हि किष्किन्धेत्युक्तम् ॥४॥रामानु०- विविधाद्विचित्रान्तःप्रदेशात् ॥ ४॥ ये स्वित्यादिश्चोक द्वयमेकान्वयम् ॥५॥६॥ रामानु-“सा ददर्श ततम्रस्तान हरीनापततो दुतम् । यूथाधिषपरिभ्रष्टान्मृगानिहतयूथपान्" इति पाठः ॥६॥ पूर्व सामान्यतो विदितवृत्तान्तापि विशेषजिज्ञासया पृच्छति-तानिति ॥७॥ V६८॥६९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टादशः सर्गः ॥१८॥१॥ मुमोह मुमूर्छ ॥२॥३॥
सेति । विविधात् विचित्रान्तःप्रदेशात् ।। ४-६ ॥ तानिति । इषुभिः अनुबद्धानिव इषुभिः प्रोतानिव ॥ ७॥ ८॥
IN५०
For Private And Personal Use Only