________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.को.
स.
८
ना.रा.भू. पावनम् । तापसभोज्यं फलमूलादि । अन्नं अदनीयम् । स्वयं नतु शिष्यमुखेन, सुसत्कृत्य अर्घ्यपाद्यादिना सम्पूज्य । महात्मा तत्र परमपुरुषत्वज्ञानवान् ।
सन्ध्यानिवृत्तौ सन्ध्याकर्मावसाने रजनीमवेक्ष्य ददौ, रजनीभक्ष्यानुसारं ददावित्यर्थः । सीता तु रामभुक्तशेष भुक्तवतीत्याशयः ॥२४॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥ अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रति
रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्धयत ॥ १ ॥ उत्थाय तु यथा कालं राघवः सह सीतया। उपास्टशत्सुशीतेन जलेनोत्पलगन्धिना ॥ २ ॥ अथ तेऽग्निं सुरांश्चैव वैदेही राम लक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥३॥ उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमाभ गम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ ४॥ सुखोषितास्स्म भगवन त्वया पूज्येन पूजिताः। आप्टच्छामः प्रयास्यामो मुनय स्त्वरयन्ति नः ॥५॥ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
॥६॥ अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः। धर्मनित्यैस्तपोदान्तविशिखरिव पावकैः ॥७॥ प्रस्थानमष्टमे-रामस्त्वित्यादि । परिणाम्य अतिवाह्य । प्रभाते उपःकाले ॥ १ ॥ सहसीतयेत्यनेन पूर्वमेव सौमित्रिः सात इति व्यज्यते । उपास्पृशत् सातवान् । “खानाचान्त्योरुपस्पर्शः" इति बाणः। सुशीतेनेत्युणोदकव्यावृत्तिः। उत्पलगन्धिनत्यनेन तटाकसानं सुच्यते ॥२॥ अग्निमित्येकवचनेन एकाग्नित्वावगमान्न त्रेताग्निरिदानीमिति गम्यते । सुरान् नारायणम् ' सह पन्या विशालाक्ष्या नारायणमुपागमत् ' इत्ययोध्याकाण्डोक्तेः ।।
परिवारापेक्षया बहुवचनम् । काल्यं यथाकालप्राप्तं यथातथा। देशानुगुणपूजाकथनाय तपस्विशरण इत्यक्तम् । उदयन्तम् उद्यन्तम् । अनेन होमा Kानन्तरमादित्योपस्थानोत्या अनुदितहोमपक्षसूचनात् कात्यायनसूत्रक्रमेण राघवाणामनुष्ठानमिति गम्यते ॥३॥४॥ सुखोपिता इत्यादिविश्लोक्येकान्वया।
आपृच्छामः आपृच्छामहे । परस्मैपदमार्पम् । अभ्यनुज्ञातुमिति भावे तुमुन् । त्वत्कर्तृकं गमनानुज्ञानं प्रार्थयामहे इत्यर्थः । मुनयः सहवासयोग्या राम इति । निशा परिणाम्य गमयित्वेत्यर्थः ॥१॥ उपास्पृशत् नातवान् ॥२-६॥ अभ्यनुज्ञातुमिच्छाम इति त्वत्कर्तृकां गमनानुज्ञा प्रार्थयाम इत्यर्थः । धर्मनित्यः नित्य टी-सुखेति । मुनयस्वरयन्ति मामित्यनेन चित्रकूटादारभ्य मार्गप्रदर्शनव्याजेन पञ्चवटीप्रवेशपर्यन्त रामेण सह मुनयः समागता इति गम्यते ॥ ५॥
॥२१॥
For Private And Personal Use Only