________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥४४॥
टी.कि.का. संश्रयः इतरफलक्षण्येनाश्रयणीयः । यद्वा साधूनां भगवत्माप्तिकामानाम् । आपन्नानाम् कैवल्यनिष्ठानाम् । आर्तानामैश्चर्यकामानाम इतरवैलक्षण्येनाश्रयणीयः । यशसच| यशस एव, नायशसः । एकभाजनम् अनितरसाधारण्येनाश्रयः । सुप्रतिष्ठितत्वपरिपूर्णत्वादिद्योतनाय भाजनग्रहणम् । अत्र यशःशब्देनौदार्यप्रतापजनितकीर्तिलोकप्रसिद्धा "
न स० १५ तस्येशे कश्चन तस्य नाम महद्यशः" इत्युक्तवैदिकप्रसिद्धा च कीर्तिः कथिता ॥१८-२०॥ तदिति । रणकर्मसु दुर्जयेनेत्यन्वयः ॥२१॥ ते अभ्यसूयितुं नेच्छामि
तत्क्षमं न विरोधस्ते सह तेन महात्मना । दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥२१॥ शूर वक्ष्यामि ते किञ्चिन्नचे च्छाम्यभ्यसूयितुम् । श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥ यौवराज्येन सुग्रीवं तूर्ण साध्वभि षेचय । विग्रहं मा कृथा वीर भ्रात्रा राजन बलीयसा ॥२३॥ अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥२४॥ लालनीयो हि ते भ्राता यवीयानेष वानरः। तत्र वा सनिहस्थो वा सर्वथा बन्धुरेव ते ॥२५॥ न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन । दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥२६॥ वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु । सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ २७ ॥ भ्रातुः सौहृदमालम्ब नान्या गतिरिहास्ति ते ॥२८॥ यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम् । याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २९ ॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषवानुविधातुमर्हसि । क्षमो हि ते कोसलराज
सूनुना न विग्रहः शक्रसमानतेजसा ॥३०॥ त्वद्विषये अभ्यसूयां दोषाविष्करणं कर्तु कदाचिदपि नेच्छामीत्यर्थः। यद्वा मया वक्ष्यमाणे हिते त्वया अभ्यसूया न कार्येत्यर्थः ॥ २२ ॥ यौवराज्येन अभिषेचय यौवराज्येनोपलक्षितो यथा भवति तथाभिषिञ्चेत्यर्थः ॥२३-२५ ॥ प्रत्यनन्तरं त्वदनन्तरम् । समीपवर्तिनं वा कुरुष्व ॥ २६ ॥२७॥icineer भ्रातुरित्यर्धम् । आलम्ब आलम्बस्व ॥२८॥ अवैषि जानासि । प्रयत्नेन बहुप्रयत्नेन ॥२९॥ स्ववचनाश्रवणे बाधकं सूचयन्त्याह-प्रसीदेति । प्रसीद हितोपदेशकथनस्य फलमाह तदिति । न क्षमम् अयुक्तमित्यर्थः ॥ २१ ॥ शूरेति । ते अभ्यसूयितुं नेच्छामि । त्वद्विषये अभ्यसूया न क्रियत इत्यर्थः । टी-ता किं कर्तव्यमित्यत आह-शूरेसि । अभ्ययितु दोषमाविष्कतु नेच्छानि ।। २२-२३ ।। दानमानेति । प्रत्यनन्तरं त्वदनन्तरभूतम् ॥ २६-३०॥
For Private And Personal Use Only