________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagarsun Gyanmandir
सप्तरात्रेति । सप्तरात्रकृताहाराः वायुना सप्तरात्रस्य एकवारं कृताहाराः । सप्तभिर्वर्षशतेरित्यन्वयः ॥ १९ ॥ तेषामित्यादि । विशन्तीति । ये मोहादवाश्रमे विशन्ति न ते निवर्तन्ते किंतु तत्रैव नश्यन्तीत्यर्थः ॥ २० ॥२१ ॥ दिवं गताः शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्ती
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ १८ ॥ सप्तरात्र कृताहारा वायुना वनवासिनः। दिवं वर्षशतैयाताः सप्तभिः सकलेवराः ॥ १९ ॥ तेषामेवंप्रभावानां द्रुमप्राकार संवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥२०॥ पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः। विशन्ति मोहाये तत्र निवर्तन्ते न ते पुनः ॥ २१ ॥ विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥२२॥ त्रेतानयोपि दीप्यन्ते धूमो ह्यत्र प्रकाशते । वेष्ट्यन्निव वृक्षाग्रान कपोताङ्गारुणो घनः ॥२३॥ एत वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥ कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥२५॥ प्रणमन्ति हि ये तेषां मुनीनां भावि तात्मनाम् । न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ २६ ॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य .महात्मानस्तानृषीनभ्यवादयत् ॥ २७॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥२८॥ त्याशयेनाह-विभूषणेत्यादिना । भूपणरवेण नृत्तमुपलक्ष्यते । सकलाक्षरा इति गीतस्वनविशेषणम् । तूर्यशब्दोत्र गीतभिन्नवाद्यपरः ॥ २२ ॥
तेति । त्रेताग्निदीपने लिङ्गमाह-धूमो हीति । चनः निविडः ॥ २३ ॥२४॥ कुर्विति । समुद्दिश्य किञ्चित्फलमुद्दिश्य तेषां प्रणामं कुरु ॥२५॥ प्रणमन्तीति । शरीरे अशुभं व्याध्यादिकम् ॥ २६॥ महात्मानः महात्मनः ॥२७॥ अभिवाद्येत्यनेन सर्वेषामभिवादनमनूद्यते । अवाभिवादनं नम| सप्तरात्रताहारा: सप्तम रात्रि गायु कताहारा इति यावत् । सतराने सति बाबुना कृताहारा इति वा ॥१९-२१॥ सकलाक्षरा कलाग्यम्यक्तमपुराणि अक्षराणि पानि PAN प्रतीयत इति शेषः ॥२२॥ कपोतानारुणः अरुणो धूसरः तपसा देवत्वं गता अपि स्वसामर्षेनेच्छया अमरगणाः पूर्वस्थाने विहरन्तीति भावः ॥२३-२६॥ ततो राम इति । समुदिश्य
For Private And Personal Use Only