SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. ॥३५॥ सन्तुष्यति तथा वदति-एवमुक्त्वेत्यादिना ॥ ७३-७६ ॥ उद्विग्न इति । उद्विग्नः भीतः॥ ७७-७९ ॥ नेति स्पष्टम् ॥ ८० ॥काममिति । वाणी एकरूपं वचनम् । प्रमाण बुद्धिः। धैर्यम् अचञ्चलता । आकृतिर्वेषश्च भस्मच्छन्नमनलमिव स्थितम् ते परं तेजः कामम् अतिशयेन सूचयन्ति । अथापि मे| तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुश्चामि ऋश्यमूकमहं त्विमम् ॥७६ ॥ उद्विग्नः शङ्कितश्चापि विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरः ॥ ७७ ॥ उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ७८॥ किन्तु तस्य बलज्ञोहं दुर्घातुर्बलशालिनः। अप्रत्यक्षं तु मे वीर्य समरे तव राघव ॥ ७९ ॥ न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम ॥ ८॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः। सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८१ ॥ [स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति । कातरं हृदयं राम प्रत्ययं नाधिगच्छति ॥ यदि बाणेन भेत्ता त्वं सालान सप्ताद्य राघव । वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ॥] तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः। स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ ८२॥ यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्य महमुत्पादयामि ते ॥ ८३॥ एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः। राघवो दुन्दुभेः कायं पादाङ्गुष्टेन लीलया। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८ ॥असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् । क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ॥ ८५॥ कातर्य जनितमिति पूर्वेणान्वयः ॥ ८१॥ रामानु०--काममिति । भस्मच्छन्नमनलमिव स्थितं तेज इति सम्बन्धः ॥ ८१ ॥ ॥ ८२ ।। यदीति । विक्रम विषये। प्रत्ययं विश्वासम् । समरे विषये ॥८३॥ एवमिति । सान्त्वमित्यनेन प्रत्ययप्रश्नेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाष्ठेन अनुद्धतेन । तोलयित्वा चालयित्वा ॥८४ ॥ रामानुराधको दुन्दुभेः । तोलयित्वा । असुरस्य । तिनं दृष्ट्वा । लक्ष्मणस्याग्रतो राममिदं वचनमबदिति पाठकमः । पादाङ्गुष्ठेन चिक्षेप अनुदृतपादतलः सन् वाक्यार्थः ।। ७०-७९ ॥ टी मद्रीत्यैव बालिमहरू वर्णितम, नतु त्वत्सादृश्यापादनायेत्याह-नखल्विति ॥ ८०-८२ ॥ यदीति । समरे समरविषये ॥ ८३ ॥ पादाङ्गुष्ठेन लीलया चिक्षप अनुतपदचलनस्सन् अङ्गुष्ठाग्रेण चिक्षेपेत्यर्थः ॥८५-८६ ॥ ॥३५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy