________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अन्तरम् अवकाशम् ॥ ११-१३॥ ब्रूमि ब्रवीमि । वयस्यतां मित्रत्वम् ॥ १४॥ मधुरमिति । प्रमार्जयत् । स्वार्थे णिच् । अनित्यमागमशासनमिति अडभावः ॥ १५॥१६॥ अनुरूपं मित्रत्वानुरूपम् । युक्तं शोकनिवारणयोग्यम् । कृतम् उक्तमित्यर्थः ॥ १७-१९॥ विसम्धेन स्निग्धेन ॥२०॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ११॥ ये शोकमनुवर्तन्ते नतेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥१२॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥१३॥ हितं वयस्यभावेन ब्रूमि नोपदिशामि ते । वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४ ॥ मधुरं सान्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १५॥ प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ १६ ॥ कर्तव्यं यद्यस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १७॥ एष च प्रकृतिस्थोऽहमनुनीत स्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥१८॥ किन्तु यत्नस्त्वया कार्यों मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षास्विव च सुक्षेत्रे सर्व सम्पद्यते मयि ॥२०॥ मया च यदिदं वाक्यमभिमानात्समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्
॥२१॥ अनृतं नोक्तपूर्व मे नच वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥ अभिमानात शौर्याभिमानात् । त्वय्यभिमानादा। तत्त्वं यथार्थम् ॥२१-२३ ॥ श्रय पाश्रय । अन्तरमवकाशम् ॥ ११-१४ ॥ मधुरमिति । प्रमार्जयत् । स्थाऐं णिच । अडभाव आर्षः॥ १५॥ प्रकृतिस्थः स्वभावस्था, दुःखरहित इत्यर्थः ॥ १६-२ मया चेति । इदं वाक्यं शालिनं वधिध्यामीति वाक्यम् । अभिमानात त्वयि प्रणयात् ॥२१-२३॥
स०-विसन्धेन विश्वस्तेन मषा यत्कर्तव्य तदुच्यताम् । अनन्तरं च वर्षासु तत्रापि च सुक्षेत्रे उप्तं यथा सम्पद्यते तथा तब सां सम्पद्यते ॥ २० ॥
For Private And Personal Use Only