________________
Shri Mahavir Jan Aradhara Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
॥२२॥
पा.रा.भ.IVशोभनमिति निमित्तशास्त्रविदः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चमः सर्गः ॥५॥शटी.कि.को. एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे-पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ॥१॥ अयमिति ।
त्वं स०६ पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ॥ १॥ अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः। हनुमान यन्निमित्तं त्वं निर्जनं वनमागतः॥२॥ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव । रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥३॥ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता। अन्तरप्रेप्सुना तेन हत्वा गृधं जटायुषम् ॥ ४ ॥ भार्यावियो गजं दुःखमचिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टा वेदश्रुतीमिव ॥५॥ रसातले वा वर्तन्तीं वर्तन्ती वा नभस्तले । अहमानीय दास्यामि तव भार्यामरिन्दम ॥६॥ इदं तथ्यं मम वचस्त्वमवेहि च राघव । न शक्या
सा जरयितुमपि सेन्द्रः सुरासुरैः ॥ ७॥ तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥८॥ यनिमित्तं वनमागतः तदाख्याति स्म ॥२॥ रामानु०-आख्याति आख्यतवान् । वर्तमानसामीप्ये वर्तमानवद्वति भूते लट् ॥ २ ॥ लक्ष्मणेनेत्यादिश्चोकद्रयम् । तेन पूर्वमविज्ञातेन ॥३॥8॥ विमोक्ष्यसे त्यक्ष्यसि । नष्टां मधुकैटभापहृताम् । वेदश्रुतीम् श्रूयत इति श्रुतिः शब्द, वेदरूपश्रुतीमिव वेदृगिरमिव दीर्घः आर्षः ॥५॥ रामानु०-नष्टां वेदश्रुति यथेति । श्रूयत इति श्रुतिरिति व्युत्पत्त्या श्रुतित्वं वेदशास्त्रादेः साधारणम् । तदयावृत्त्यर्थं वेदश्रुतिमित्युक्तम् ॥ ५॥ वर्तन्ती वर्त मानाम् ॥६॥ जरयितुम् आत्मसात्कर्तुम् । विपकृतं विषेण पक्वम् ॥ ७॥८॥ वाली । क्षणदाचरः रावणः । वामनेत्रस्फुरणं पुंसां दुनिमित्तम् । स्त्रीणां शुभकरमिति भावः ॥ स-सीताया वामनेत्रस्फुरणं त्रिकालदर्शिना ऋषिणा दृष्टेवोक्त मिति वक्तव्यम ॥३३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५॥ पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यम् । त्वं यन्निमित्तं बनमागतः तदाख्याति आख्यातवान् ॥१॥२॥ लक्ष्मणेनेत्यादि श्लोकद्वयमेकं वाक्यम् । भ्रात्रा सह धने वसतस्तषान्तरप्रेप्सुना तवानवस्थानं ... मातुमिच्छता । रक्षसा रावणेन गुभं हत्वा त्वया लक्ष्मणेन च वियुक्ता वैदेही अपहृतेति हनुमानाख्यातीत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ ३ ॥ ४॥ भार्यावियोग ॥२२॥ जमित्यादि । किवनो वेदश्रुतीमिव । भूयत इति श्रुतिरिति प्युत्पत्या श्रुतिवेदशास्वसाधारणम्, तव्यावृत्यर्थ वेदश्रुतीमित्युक्तम् । मधुकैटभाभ्यो पाताले गुप्त वेदजातं मत्स्पाकृतिईरिर्यथा आनीतवान् तद्वत्सीतामानयिष्यामि, आनेष्यामीत्यर्थः ॥ ५-८ ॥
For Private And Personal Use Only