SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥२१॥ शेषः ॥ १३॥ हृद्यमित्यर्धम् । पीडितं दृढम् ॥ १४॥ मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वाचरति-तत इति । भिक्षुरूपं सन्त्यज्येत्य-टी.कि.को. नेन सुग्रीवविश्वासार्थम् "तौ त्वया प्राकृतेनैव गत्वा ज्ञेयो प्लवङ्गम" इति तदुक्तप्रकारेण पुनर्भिक्षुरूपेणैव तदन्तिकं गत इत्यवगम्यते । स्वेन रूपेण वानर रूपेण । काष्ठयोः अरणिभूतशमीकाष्ठयोः । सप्तम्यन्तं पदम् ॥ १५॥ दीप्यमानमिति । सत्कृतमित्यभ्यय॒त्यस्यानुवादः। तयोः रामसुग्रीवयोः ॥१६॥ हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १४॥ ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः। काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ १५॥ दीप्यमानं ततो वह्नि पुष्पैरभ्यर्च्य सत्कृतम् । तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ॥१६॥ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्। सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥१७॥ ततः सुप्रीतमनसौ तावुभौ हरिराघवौ। अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः॥ १८॥ त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ । सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्॥१९॥ ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् । सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥२०॥ लक्ष्मणायाथ संहृष्टो हनुमान प्लवगर्षभः। शाखा चन्दनवृक्षस्य ददौ परमपुष्पिताम् ॥ २१॥ ततःप्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा। प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ॥२२॥ अह विनिकृतो राम चरामीह भयादितः। हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः ॥२३॥ तत इति । प्रदक्षिणं चक्रतुः । अन्योन्यं पाणिं गृहीत्वेति शेषः । उपागतौ अग्निसाक्षिकमिति शेषः ॥१७॥ तत इति । अभिपीशन्तो अभिवीक्षमाणी ॥१८॥ त्वमिति । एकं समानम् । त्वहःखेन मम दुःखं भवतु त्वत्सुखेन मम सुखं भवत्वित्यर्थः। अनेन परसाम्यापत्त्यभ्यर्थनं सचितम् ॥ १९ ॥ पतत इति । सराघव इत्यनेन एकासनत्वमुक्तम् ॥२०॥२१॥ तत इति । प्रत्युवाच तदा राममिति पाठः ॥२२॥२३॥ रामानु-अहमिति । प्रस्तः ॥२॥ यमिति । पीडितं दृढं यथा तया ॥१४॥'भिक्षुरूपं परित्यज्य' इत्यनेन 'तौ त्वया प्राकृतेनैव गत्वा ज्ञेयो प्लवङ्गम । ' इति सुग्रीवोक्तनिदेशकरणप्रतीत्पर्य समी वस्य रामागमननिवेदनसमये पुनर्भिक्षुरूपं गृहीतवानित्यवगम्यते । काष्ठयोरिति सप्तम्पन्तम् । टी०-अत्र हनुमता पाचकोत्पादनं रामाभ्यनुवपैव, अग्निसाक्षिकं स्नेहं कृर्विति कबन्धेनो | तत्वात् ॥ १५ ॥ दीप्यमानमिति । तयोः रामसुग्रीवयोः । निदधौ निहितवान् ॥ १६-२२ ॥ सुग्रीवः स्ववृत्तान्तं विज्ञापयति-अहमित्यादि । इवशब्दो| For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy