SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥१॥ कपीति । रूपान्तरपरिग्रहसामर्थ्यमुच्यते मारुतात्मज इति । शठवुद्धितया वञ्चकबुद्धितया। भिक्षुरूपं संन्यासिवेषम् । “भिक्षुः परिवाद कर्मन्दी पारा टी.कि.का. शर्यपि मस्करी।" इत्यमरः॥२॥ तत इति साधः। विनीतवत् सविनयम् । उपागम्य । प्रणिपत्य नमस्कृत्य । श्लक्ष्णया अपरुषया । सुमनोज्ञया अर्थतोऽतिरम्यया वाचा आवभाषे । यथावत्परमार्थतया प्रशशंस च । अत्र भिक्षुरूपस्य हनुमतः प्रणामादन्यत्रापि भिक्षोर्गृहस्थादिविषये प्रणामः कपिरूपं परित्यज्य हनुमान मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥२॥ ततः स हनुमान वाचा श्लक्ष्णया सुमनोज्ञया। विनीतवदुपागम्य राघवौ प्रणिपत्य च। आबभाषे तदा वीरौ यथावत् प्रशशंस च ॥३॥ कर्तव्य एवेति विज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधवचनान्यज्ञविषयाणीति मन्तव्यानि । यदि हि ज्ञानाधिकं दृष्ट्वा कर्ममात्रेणाधिको यतिन प्रण। मेत् तर्हि "विप्राणां ज्ञानतो ज्यैष्ठयम्" इति मनुवचन विरुद्धयेत । नहि तत्प्रणामनिषेधकं मनुवचनं किश्चिदृश्यते । किं त्वनारभ्याधीतमदृष्टाकर यत्किञ्चिद्यतिप्रणामनिषेधवचनं किंवदन्तीसिद्धम् । तस्य च विषयोऽज्ञगृहस्थादिरूपः। यत्तु कैश्चिदुक्तम्-अत्यद्भुतरामलक्ष्मणरूपदर्शनसातातिविस्मयः सन् अङ्गीकृतं भिक्षुरूपं विस्मृत्य "अवशाः प्रतिपेदिरे" इतिवत् प्रणनामेति न विरोध इति । तन्नः उपक्रमविरोधात् । इङ्गितवचनादिभिः परहृदय ज्ञानार्थ हि प्रेषितोऽयम् । नहि तथा नियुक्तः सुनिपुणमतिः सचिवधुरन्धरः स्वकार्यविरोधकरं परिगृहीताकारविरुद्धमविसम्भहेतुत्वेन परेङ्गितानाविष्कार | हेतुभूतं कायें कुर्यात् । यदप्युक्तम्-"रूपमेवास्यैतन्महिमानं व्याचष्टे" इति न्यायेन दर्शनमानेमैटो सुग्रीवविरोधिनिरसनदक्षाविति निश्चित्य परिगृहीत वेषान्तरस्य स्वस्य चारत्वं प्रकटयितुं नमस्कारं कृतवानिति न दोष इति । तदपि न तथा सति सुग्रीवो नामेत्यादिवक्ष्यमाणमेव प्रथमं कथयेत् ।। कचित्तु-भिक्षुब्रह्मचारी, अतो न दोष इत्याहुः । तन्नः तादृशभिक्षुकत्वस्य पूर्वमेव सिद्धत्वेन इदानीमपरिग्राह्यत्वात् । अपरे तु-सर्वथा कपिरूपं परि।। त्यज्येत्युपक्रमात उपरिष्टात् प्रच्छन्नत्वोक्त्या च मानुषरूपाङ्गीकारावश्यंभावात्तद्रूपविशिष्टं ब्रह्मचर्यमेवात्र भिक्षुशब्देनोच्यत इति न विरोध इत्यूचिर ।। ॥१४॥ तत्पक्षे तु पूर्वोक्तया दिशा दूपणं चिन्त्यम् ॥३॥ रामानु-ततः स हनुमान् वाचा श्लक्ष्णया सुमनोज्ञयेति पाठः । प्रणिपत्येति । नमस्कारः परिगृहीतभिक्षुवेषविरुद्ध इति कपिरूपमिति । शठबुद्धितया वञ्चकबुद्धितया । टी-भिक्षुरूप नैष्ठिकब्रह्मचर्यरूपम् ॥ २ ॥ तत इति । नमस्कारो विधृतभिक्षुवेषविरुद्ध इति चेत, मैवम् हनूमान् "रूप मेवास्यैतन्महिमानं व्याचष्टे" इति न्यायेन तयोर्दर्शनमात्रेणैव तो सुग्रीवविरोधिनिरसने क्षमाविति ज्ञात्वा गृहीतवेषान्तरस्य स्वचारत्वं प्रकटयितुं प्रणनामेति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy