________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.
॥१२॥
स.
भीतमनस्कः॥२॥ स्थाने स्वस्थाने, निश्चलत्व इति यावत् । व्यवससाद दुःखितमभूत् ॥३॥ धर्म राजधर्म आत्मा मतिर्यस्य स धर्मात्मा । अनु । Mचरैः मन्त्रिभिः सह । चिन्तयित्वा गुरुलाघवं विमृश्य । स्थाने पलायने च गुरुलाघवं विमृश्य च परमोदिनोऽभवत् ॥ ४॥ रामलक्ष्मणौ तत्स्वभाव शशंस ॥५॥ प्रणिहितौ चारौ । छद्मना ऋषिवेषव्याजेन ॥ ६॥ जग्मुः । सुग्रीववचने हितत्वबुद्धयेति शेषः ॥ ७॥ अधिगम्य नानादिक्षु पलायिताः ।
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ । कपः परमभीतस्य चित्तं व्यवससाद ह ॥३॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्नः सर्वेरनुचरैः सह ॥ ४॥ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः । शशंस परमोदिनः पश्यस्तौ रामलक्ष्मणौ ॥५॥ एतौ वनमिदं दुर्ग वालिप्रणिहितौ ध्रुवम् । छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥६॥ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ । जग्मुर्गिरितटात्तस्मादन्य च्छिखरमुत्तमम् ॥ ७॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् । हरयो वानर श्रेष्ठं परिवार्योपतस्थिरे ॥८॥
एकमेकायनगताः प्लवमाना गिरेगिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ॥९॥ एकत्र समागम्य ॥८॥ पुनरपि गिरेगिरि प्यूवमानाः गिरीणां शिखराण्यपि प्रकम्पयन्तः । एकायनगताः क्रमेणैकस्थानगताः सन्तः। एकम् एका किनं सुग्रीवमुपतस्थिर इत्यनुपङ्गः। एवमेकायनगता इति पाठे-एवम् उक्तरीत्या । एकायनगतास्ते प्रकम्पयन्तोऽभवन्निति योजना ॥ ९॥ रामानु०-एव मिति पाठः । अपिशब्दो भिन्नक्रमः । एवमेकायनगता अपि पूर्वोक्तप्रकारेणकस्थानगता आप गिरीणां शिखराणि प्रकम्पयन्तः गिरेगिरिं लवमानाः । जग्मुरिति शेषः । अत्र गिरिशब्दो गिर्येकदेशवाची । एकमेकाषनगता इति पाठे-एक पलायनेन एकाकिन यूथपर्षभं सुग्रीवमधिगम्य । अत एव एकायनगता एकस्थानगताः परिवायोपतस्थिर इति पूर्वेण सम्बन्धः ॥९॥ वेति । तौ वीक्षमाणौ मनः स्थाने न चक्के न स्थापयामास । व्यसनात्कर्तव्यतान्योऽभूदित्यर्थः ॥३॥ धर्मात्मा धर्म राजधर्म आत्मा मतिर्यस्य सा तथोक्तः " आत्मा यत्नो धृतिर्बुद्धिः" इत्यमरः । सुग्रीवः अनुचरेमन्त्रिभिस्सह चिन्तयित्वा गुरुलाघवं विमृश्य अवस्थाने पलायने च गुरुलाघवं विमृश्य परमो दिनोऽभवदिति सम्बन्धः ॥४-८॥ एवमिति पाठः । एवमेकायनगता अपि पूर्वोक्तप्रकारेण एकस्थानगता अपि गिरीणां शिखराणि प्रकम्पयन्तः गिरेः गिरि पूर्व मानाः जग्मुरिति शेषः । एकमेकायनगता इति पाठे-एकाकीभूय भयेन पलायन्तम् अत एव एकम् एकाकिनं यूथपर्षभं सुप्रीवमभिगम्य अत एव एकायनगताः
॥१२॥
For Private And Personal Use Only