SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir परिमलावह इत्यर्थः । गुणगुणिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः। उभयोक्त्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्पपरिमलं वहतीत्यु | च्यते । शिवं शुद्धम् । तथा चान्यासंस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । शोकविनाशनम् । विरहिणो दक्षिणपवनः शोकवर्धनः नतु शोक विनाशनः । तथा च जीवतो हि शोकं कुर्यात् जीवितापायकरणेन शोकधर्म्यभावाच्छोकविनाशनम् । धन्या एवं विधे मलयानिले वाति सति एकान्त श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान विवशा जनकात्मजा॥१०६ ॥ किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् । सीताया जनकं पृष्टः कुशलं जनसंसदि ॥१०७॥ या मामनुगता मन्दं पित्रा प्रवाजितं वनम् । सीता सत्पथमास्थाय वनु सा वर्तते प्रिया ॥१८॥ तया विहीनः कृपणः कथं लक्ष्मणधारये। या मामनुगता राज्याभ्रष्टं विगतचेतसम् ॥ १०९ ॥ तच्चार्वश्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम् अपश्यतो मुखं तस्याः सीदतीव मनो मम॥ १०॥ स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ १११॥ स्थलमन्वेष्य शयनपराः केचन सन्ति हि । सेवन्ते कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । सेवा झवसरप्रतीक्षा । पम्पोपवनमारुतम् आकरादागतानिमिव स्थितम् । समुद्रादुत्थितवडवानलमिवेत्यर्थः। (प्रत्येक श्लोकव्याख्यानेप्ययमेवाभिप्राय उक्तः)॥ १०५ ॥ श्यामेति । विवश प्राणत्यागेपि न स्वतन्त्रेत्यर्थः॥१.६॥ किन्विति । सीतया सह मम कुशलं पृष्ट इत्यर्थः ॥ १०७॥ मन्दं भाग्यरहितम् । “मूढाल्पापद्धनिभाग्या मन्दाः स्युः" इत्यमरः । सत्पथं पतिव्रतामार्गमास्थाय अनुगतेत्यन्वयः ॥ १०८॥धारये जीवामि । विगतचेतसं विकलहृदयम् ॥१०९॥ अञ्चित पक्ष्माक्षम् अञ्चितानि पूजितानि, स्निग्धानीति यावत् । पक्ष्माणि ययोस्ते अश्चितपक्ष्मणी अक्षिणी यस्य तत् । शुभं शोभमानम् । अत्रणम्, निर्दोषमित्यर्थः । व्रणकिणरहितं वा ॥ ११०॥ स्मितेति । स्मितहास्यान्तरयुतं “कान्तस्मिता लक्ष्मण जातहासा" इत्युक्तरीत्या स्मितेन नैसर्गिक सकान्ताः ॥१०५॥१०६॥ किंन्विति । सीतयेति सहार्थे तृतीया । सीतया सहितस्य तब कुशलमिति पृष्टोऽहं जनकं किं वक्ष्यामीति सम्बन्धः ॥१०७॥ टीका-धारये प्राणानिति शेषः ॥ १०८॥ १०९ ॥ तदिति । अवणं निदोषम् ॥ ११० ॥ स्मितहास्यान्तरयुतं प्रसत्रहास्यविशेषेण युक्तम् । टी०-यहा स्मितं मन्दहासः, हास्यं प्रकटहासः, अन्तरम For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy