________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू.
८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी.कि.कां. मृष्टं रम्यम् । स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल इत्यर्थः । अवलीयते सक्तो भवति ॥ ८७ ॥ रामा० - मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन्तं मधुकरं विलोक्योत्प्रेक्षते इदमिति ॥ ८७ ॥ पुनर्मधुकरस्य चापलं दर्शयति-निलीयेति । निलीय कचित् पुष्पे क्षणमात्रं स्थित्वा । पुष्पान्तरे भूयसी स० १ मिव मधुसमृद्धिं दृष्ट्वा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति ज्ञापयितुं पम्पातीरद्रुमेष्वित्युक्तम् ॥ ८८ ॥ इयं भूमिः । स्वयं निपतितैः, अति इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि । रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ८७ ॥ निलीय पुनरुत्पत्य सहसा न्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ ८८ ॥ इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता । स्वयं निपतितैर्भूमिः शयनप्रस्तरौरिव ॥ ८९ ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु । विकीर्णेः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥ ९० ॥ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ॥ ९१ ॥ पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः । आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुतुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ ९२ ॥ सुकुमारैरित्यथः । कुसुमसङ्घातैः उपस्तीर्णा व्याप्ता सती । शयनप्रस्तरैः शयनास्तरणैरिव सुखाकृता सुखावहा कृता ॥ ८९ ॥ नगसानुषु विकीर्णैः विविधैः इतस्ततः स्वयं पतितैः पुष्पैः । विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा । विविधा इत्यस्य विवरणं पीतरक्ता इति । इदमुपलक्षणम् नानावर्णा इत्यर्थः । क्वचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयपर्यङ्क इव भान्ति । क्वचिद्रक्तवर्णकर्णिकारादिपुष्पाणि पतितानि पट्टवस्त्र रचिततलिमानीव । इत्येवं नानावर्णनानाशय्या इव भान्तीति भावः ॥ ९० ॥ हिमान्त इत्यर्धम् । हिमान्ते वसन्ते । वृक्षाणां पुष्पसम्भवं पुष्पसमृद्धिं वक्ष्यमाणस्य संक्षेपेणोक्तिः ॥ ९१ ॥ रामा० - हिमान्ते शिशिरादी वृक्षाणां यः पुष्पसंभवोऽस्ति तम् । अस्मिन् काले पश्येत्यर्थः ॥ ९१ ॥ पुष्पेति । पुष्पमासे वसन्ते । सङ्घ र्षात् पुष्पिता अमी तरवः षट्पदनादिताः सन्तः परस्परमाह्वयन्त इव । यूयं वयमिव न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवेत्युत्प्रेक्षा । णोक्तम् ॥८६॥ मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन्तं मधुकरं विलोक्योत्प्रेक्षते इदमिति । मृष्टं शोधितम्, निर्दोषमित्यर्थः । स्वादु मधुरम् ॥ ८७॥ ८८ ॥ इयमिति । इयं भूमिः शयन प्रस्तरैः स्वयं निपतितैः कुसुमसङ्घातैरुपस्तीर्णा अत एव सुखाकृतिः । इमां पश्येति परेण संबद्धयते ॥ ८९ ॥ विविधा इति । नगसानुषु विशीर्णैर्विविधैस्ते रेव पुष्पैः पीतरक्ताः विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा ॥ ९२ ॥ हिमान्त इति । हिमान्ते शिशिरादौ वृक्षाणां पुष्पसंभवम् ॥ ९१ ॥ पुष्पमासे वसन्ते सङ्घर्षादिव
For Private And Personal Use Only
ዘ ረ ዘ