________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आसक्तचेतसा मया, सीतां बिना कथं जीवितुं शक्यम् ॥२८॥ अनन्यचेतसं स्ववाक्यश्रवणे सावधानम् । विवेश स्नानायति शेपः। नलिनी सरसीम् ।। शोकः दुःखम्, विषादः तत्कृतः कार्यकरणापाटवरूपशरीरावसादः ताभ्यां यन्त्रितः नियमितः, तत्परवश इत्यर्थः ॥२९॥ सर्गार्थ संगृह्णाति-तत इति। सुदूरं संक्रमः गमनं यस्य तथा दूरादागत इत्यर्थः । प्रतिकूलधन्वनं पथिकजनप्रतिकूलभूतमरुकान्तारम् कबन्धवनमित्यर्थः । क्रमेण अनेकविमनिवृत्ति
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् । विवेश पम्प नलिनी मनोहरी रघूत्तमः शोक विषादयन्त्रितः॥ २९॥ ततो महद्वर्त्म सुदूरसङ्गमः क्रमेण गत्वा प्रतिकूलधन्वनम् । ददर्श पम्पा शुभदर्शकानना मनेकनानाविधपक्षिजालकाम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये श्रीमद्भाल्मीकीये चतुर्विशत्सह निकायां संहितार्या श्रीमदारण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥७५॥ श्रीरामचन्द्रार्पणमस्तु॥ इत्यारण्यकाण्डम् ॥ पूर्वकं गत्वा शुभः शोभनः दर्शः दर्शनं यस्य तादृशं काननं यस्यास्ताम् । अनेके नानाजातीयाः बहवो वा नानाविधाः नानासंस्थानाः पक्षिणः शुक शारिकाकोकिलप्रभृतयः तेषां जालकानि समूहाः यस्यां ताम् । यद्वा अनेकानि नानाविधपक्षिजालकानि यस्यां ताम्,काननद्वारा पक्षिजालवत्त्वं, तादृशी पम्पां ददर्श । अस्मिन्सर्गे त्रिंशच्छ्लोकाः । न्यूनातिरेकसद्भावस्तु कोशेषु बहुधा दृश्यते ॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्न मेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ इत्थं कोशिकदिव्यवंशकलशीवाराशिराकाशशी पादाम्भोजमरन्दभोगरसिकः श्रीमच्छठारेगुरोः। आलोक्याखिलदेशिकोत्तमकृतव्याख्यानशैलीश्चिरं व्याख्यो तदरण्यकाण्डमखिलं गोविन्दराजाभिधः॥ उपसंहरति-इतीति । अनन्यचेतनः नास्त्यन्यत्र सीतायाश्चेतनं चित्तं यस्य सः । मलिनीभिमनोरमा पम्पो मतङ्गसरसप्रदेशवर्तिनी विवेश ॥२९॥ तो महदिति । दूरतः सङ्क्रम्यत इति दूरसंक्रमम्, दूरतोगम्यमानमित्यर्थः । वर्त्म मार्ग गत्वा वनं प्रविलोकयन पम्पा ददशेत्यन्वयः ॥ ३० ॥ इति श्रीपरमहंसपरि ब्राजकाचार्यश्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो पक्षसप्ततितमः सर्गः ॥ ५॥
महेशतीर्थरचिता रामपावसमर्पिता । टीका त्वारण्यकाण्डस्य समाप्ता तरखदीपिका ॥ श्रीमदारण्यकाण्डपठन श्रवणयोः फलम्-नह्माण्डपुराणे सप्तचत्वारिंशदुत्तरशततमे अभ्याये-" आरण्पर्क तु यः काण्डमतिभक्तिसमन्वितः । पठेद्वा शृणुयाद्वापि सोमसायुज्यमाप्नुयात् ।। " इति । स्कान्दे च-"भारण्यकाण्डमाहात्म्य ये शृण्वन्ति महीतले । श्रीरामस्य प्रसादेन विष्णुलोक नजन्ति ते ॥ कार्ड तृतीयं शृण्वन् यः प्रोक्तेन नियमेन तु । सोग्निसायुज्यमाप्नोति पठनाद्वापि शास्त्रतः ॥” इति ।
१२.
For Private And Personal Use Only